Posts

Showing posts from January, 2021

ऋग्वेद 1.4.4

  यस्ते सखिभ्य॒ आ वरम्॥४॥ परा। इहि। विग्रम्। अस्तृतम्। इन्द्रम्। पृच्छ। विपःऽचितम्। यः। ते। सखिभ्यः। आ। वरम्॥४॥ पदार्थ:-(परा) पृथक् (इहि) भव (विग्रम्) मेधाविनम्। वो वक्तव्य इति वेः परस्या नासिकायाः स्थाने ग्रः समासान्तादेशः । उपसर्गाच्च। (अष्टा०५.४.११९) इति सूत्रस्योपरि वार्तिकम्। विग्र इति मेधाविनामसु पठितम्। (निघं०३.१५) (अस्तृतम्) अहिंसकम् (इन्द्रम्) विद्यया परमैश्वर्ययुक्तं मनुष्यम् (पृच्छ) सन्देहान् दृष्ट्वोत्तराणि गृहाण। व्यचोऽतस्तिङः। (अष्टा०६.३.१३५) इति दीर्घः। (विपश्चितम्) विद्वांसं य आप्तः सन्नुपदिशति। विपश्चिदिति मेधाविनामसु पठितम्। (निघं०३.१५) पुनरुक्त्याऽऽप्तत्वादिगुणवत्त्वं गृह्यते। (ते) तुभ्यम् (सखिभ्यः) मित्रस्वभावेभ्यः (आ) समन्तात् (वरम्) परमोत्तमं विज्ञानधनम्॥४॥ अन्वयः-हे विद्यां चिकीर्षो मनुष्य! यो विद्वान् तुभ्यं सखिभ्यो मित्रशीलेभ्यश्चासमन्ताद्वरं विज्ञानं ददाति, तं विग्रमस्तृतमिन्द्रं विपश्चितमुपगम्य सन्देहान् पृच्छ, यथार्थतया तदुपदिष्टान्युत्तराणि गृहीत्वाऽन्येभ्यस्त्वमपि वद। यो ह्यविद्वान् ईय॑क: कपटी स्वार्थी मनुष्योऽस्ति तस्मात्सर्वदा परेहि॥४॥ भावार्थ:-सर्वेषां

ऋग्वेद 1.4.3

  अर्धा ते अन्तमानां विद्याम सुमीनाम्। मा नो अतिख्य आर्गहि॥३॥ अर्था ते। अन्तमानाम्। विद्याम। सुमतीनाम्। मा। नः। अतिख्यः। आ। गहि॥३॥ पदार्थ:-(अथ) अनन्तरार्थे। निपातस्य चेति दीर्घः। (ते) तव (अन्तमानाम्) अन्तः सामीप्यमेषामस्ति तेऽन्तिका, अतिशयेनान्तिका अन्तमास्तत्समागमेन। अत्रान्तिकशब्दात्तमपि कृते पृषोदरादित्वात्तिकलोपः। अन्तमानामित्यन्तिकनामसु पठितम्। (निघं०२.१६) (विद्याम) जानीयाम (सुमतीनाम्) वेदादिशास्त्रे परोपकारे धर्माचरणे च श्रेष्ठा मतिर्येषां मनुष्याणाम्। मतय इति मनुष्यनामसु पठितम्। (निघ०२.३) (मा) निषेधार्थे (न:) अस्मान् (अतिख्यः) उपदेशोल्लङ्घनं मा कुर्याः (आगहि) आगच्छ॥३॥ अन्वयः-हे परमैश्वर्यावन्निन्द्र परमेश्वर! वयं ते तवान्तमानामर्थात्त्वां ज्ञात्वा त्वन्निकटे त्वदाज्ञायां च स्थितानां सुमतीनामाप्तानां विदुषां समागमेन त्वां विजानीयाम। त्वन्नोऽस्मानागच्छास्मदात्मनि प्रकाशितो भव। अथान्तर्यामितया स्थितः सन्सत्यमुपदेशं मातिख्यः कदाचिदस्योल्लङ्घनं मा कुर्य्याः॥३॥ ___ भावार्थ:-यदा मनुष्या धार्मिकाणां विद्वत्तमानां सकाशाच्छिक्षाविद्ये प्राप्नुवन्ति तदा नैव पृथिवीमारभ्य परमेश्वरपर्यन्तान्

ऋग्वेद 1.4.2

  उप॑ नः सवनाहि सोम॑स्य सोमपा: पिब गोदा इद्रेवो मदः॥२॥ उप। नः। सर्वना। आ। गहि। सोमस्य। सोमऽपाः। पिब। गोऽदाः। इत्। रेवतः। मदः॥२॥ पदार्थ:-(उप) सामीप्ये (न:) अस्माकम् (सवना) ऐश्वर्ययुक्तानि वस्तूनि प्रकाशयितुम्। सु प्रसवैश्वर्ययोः इत्यस्माद्धातोर्म्युट् प्रत्ययः (अष्टा०३.३.११४) शेश्छन्दसि बहुलमिति शेर्लुक्। (आगहि) आगच्छति। शपो लुकि सति वाच्छन्दसीति हेरपित्वादनुदात्तोपदेश०। (अष्टा०६.४.३७) इत्यनुनासिकलोप: लडथै लोट् च। (सोमस्य) उत्पन्नस्य कार्य्यभूतस्य जगतो मध्ये (सोमपाः) सर्वपदार्थरक्षकः सन् (पिब) पिबति। अत्र व्यत्ययः लडर्थे लोट् च। (गोदाः) चक्षुरिन्द्रियव्यवहारप्रदः। क्विप् चेति क्विप् प्रत्ययः। गौरिति पदनामसु पठितम्। (निघ०५.५) जीवो येन रूपं जानाति तस्माच्चक्षुर्गो:। (इत्) एव (रेवतः) पदार्थप्राप्तिमतो जीवस्य। छन्दसीर इति वत्वम्। (मदः) हर्षकरः॥२॥ __ अन्वयः-यतोऽयं सोमपा गोदा इन्द्रः सूर्य्यः सोमस्य जगतो मध्ये स्वकिरणैः सवना सवनानि प्रकाशयितुमुपागहि उपागच्छति तस्मादेव नोऽस्माकं रेवत: पुरुषार्थिनो जीवस्य च हर्षकरो भवति॥२॥ भावार्थ:-सूर्य्यस्यः प्रकाशे सर्वे जीवाः स्वस्य स्वस्य कर्मानुष्ठानाय वि

ऋग्वेद 1.4.1

  अथास्य दशर्चस्य चतुर्थसूक्तस्य मधुच्छन्दा ऋषिः। इन्द्रो देवता। १,२, ४-९ गायत्री; ३ विराङ्गायत्री; १० निवृद्गायत्री च छन्दः। षड्जः स्वरः॥ ___ तत्र प्रथममन्त्रेणोक्तविद्याप्रपूर्त्यर्थमिदमुपदिश्यते अब चौथे सूक्त का आरम्भ करते हैं। ईश्वर ने इस सूक्त के पहिले मन्त्र में उक्त-विद्या के पूर्ण करनेवाले साधन का प्रकाश किया है सुरूपकृत्लुमूतये सुदु_मिव गोदुहे। जुहूमस द्यविद्यवि॥१॥ सुरूपऽकृत्लुम्। ऊतये। सुदुर्घाम्ऽइव। गोदुहै। जुहूमसि। द्यविऽद्यवि॥ १॥ पदार्थ:-(सुरूपकृत्नुम्) य इन्द्रः सूर्य्यः सर्वान्पदार्थान् स्वप्रकाशेन स्वरूपान् करोतीति तम्। कृहनिभ्यां कृत्नुः। (उणा०३.२८) अनेन क्तनुप्रत्ययः। उपपदसमासः। इन्द्रो दिव इन्द्र ईशे पृथिव्याः। ऋ० १०.८९.१०) नेन्द्रादृते पवते धाम कि चुन॥ (ऋ०९.६९.६, निरु०७.२) (निरु०७.२) अहमिन्द्रः परमेश्वरः सूर्यं पृथिवीं च ईशे रचितवानस्मीति तेनोपदिश्यते। तस्मादिन्द्राद्विना किञ्चिदपि धाम न पवते न पवित्रं भवति। (ऊतये) विद्याप्राप्तये। अवधातोः प्रयोगः। ऊतियूति०। (अष्टा०३.३.९७) अस्मिन्सूत्रे निपातितः। (सुदुघामिव) यथा कश्चिन्मनुष्यो बहुदुग्धदात्र्या गोः पयो दुग्ध्वा स्वाभ

ऋग्वेद 1.3.12

  महो अर्णः सरस्वती प्रचैतयति केतुना धियो विश्वा वि राजति॥१२॥६॥१॥ महः। अर्णःसरस्वती। प्रा चेतयति। केतुना। धियः। विश्वाः। वि। राजति॥ १२॥ पदार्थ:-(महः) महत्। अत्र सर्वधातुभ्योऽसुन्नित्यस्सुन्प्रत्ययः। (अर्णः) जलार्णवमिव शब्दसमुद्रम्। उदके नुट् च। (उणा०४.१९७) अनेन सूत्रेणार्तेरसुन्प्रत्ययः। अर्ण इत्युदकनामसु पठितम्। (निघं०१.१२) (सरस्वती) वाणी (प्र) प्रकृष्टार्थे (चेतयति) सम्यङ् ज्ञापयति (केतुना) शोभनकर्मणा प्रज्ञया वा। केतुरिति प्रज्ञानामसु पठितम्। (निघं०३.९) (धियः) मनुष्याणां धारणावतीर्बुद्धीः (विश्वाः) सर्वाः (वि) विशेषार्थे (राजति) प्रकाशयति। अत्रान्तर्भावितो ण्यर्थः। निरुक्तकार एनं मन्त्रमेवं समाचष्टे-महदर्णः सरस्वती प्रचेतयति प्रज्ञापयति केतुना कर्मणा प्रज्ञया वेमानि च सर्वाणि प्रज्ञानान्यभिविराजति वागर्थेषु विधीयते तस्मान्माध्यमिकां वाचं मन्यन्ते वाग्वाख्याता। (निरु०११.२७) ।।१२॥ अन्वयः-या सरस्वती केतुना महदर्णः खलु जलार्णवमिव शब्दसमुद्रं प्रकृष्टतया सम्यग् ज्ञापयति सा प्राणिनां विश्वा धियो विराजति विविधतयोत्तमा बुद्धी: प्रकाशयति॥१२॥ भावार्थ:-अत्र वाचकोपमेयलुप्तोपमालङ्कारः। यथा वायुन

ऋग्वेद 1.3.11

  चोदयत्री सूनृतानां चेतन्ती सुमीनाम्। यज्ञं दधे सरस्वती॥११॥ चोदयत्री। सूनृानाम्। चेतन्ती। सुऽमतीनाम्। य॒ज्ञम्। धे। सरस्वती॥ ११॥ पदार्थः-(चोदयित्री) शुभगुणग्रहणप्रेरिका (सूनृतानाम्) सुतरामनयत्यनृतं यत्कर्म तत् सून् तदृतं यथार्थं सत्यं येषां ते सूनृतास्तेषाम्। अत्र 'ऊन परिहाणे' अस्मात् क्विप् चेति क्विप्। (चेतन्ती) सम्पादयन्ती सती (सुमतीनाम्) शोभना मतिर्बुद्धिर्येषां ते सुमतयस्तेषां विदुषाम् (यज्ञम्) पूर्वोक्तम्। (दधे) दधाति। छन्दसि लुङ्ललिटः। (अष्टा०३.४.६) अनेन वर्त्तमाने लिट्॥११॥ अन्वयः-या सूनृतानां सुमतीनां विदुषां चेतन्ती चोदयित्री सरस्वत्यस्ति, सैव वेदविद्या संस्कृता वाक् यज्ञं दधे दधाति॥११॥ भावार्थ:-या किलाप्तानां सत्यलक्षणा पूर्णविद्यायुक्ता छलादिदोषरहिता यथार्थवाणी वर्त्तते, सा मनुष्याणां सत्यज्ञानाय भवितुमर्हति नेतरेषामिति।११॥ पदार्थः-(सूनृतानाम्) जो मिथ्या वचन के नाश करने, सत्य वचन और सत्य कर्म को सदा सेवन करने (सुमतीनाम्) अत्यन्त उत्तम बुद्धि और विद्यावाले विद्वानों की (चेतन्ती) समझने तथा चोदयित्री) शुभगुणों को ग्रहण करानेहारी (सरस्वती) वाणी है, वही सब मनुष्यों के शुभ

ऋग्वेद 1.3.10

  पावका नः सरस्वती वाजेभिर्वाजिनीवती यज्ञं वष्ट धियावसुः॥१०॥ पावका। नः। सरस्वतीवाजेभिः। वाजिनीऽवती। य॒ज्ञम्। वष्टु। धियाऽवसुः॥ १०॥ पदार्थ:-(पावका) पावं पवित्रकारकं व्यवहारं काययति शब्दयति या सा। 'पूञ् पवने' इत्यस्माद्भावार्थे घञ्। तस्मिन् सति ‘कै शब्दे' इत्यस्मात् आतोऽनुपसर्गे कः। (अष्टा०३.२.३) उपपदमति। (अष्टा० २.२.१९) इति समासः। (नः) अस्माकम् (सरस्वती) सरसः प्रशंसिता ज्ञानादयो गुणा विद्यन्ते यस्यां सा सर्वविद्याप्रापिका वाक्। सर्वधातुभ्योऽसुन्। (उणा०४.१८९) अनेन गत्यर्थात् सृधातोरसुन्प्रत्ययःसरन्ति प्राप्नुवन्ति सर्वा विद्या येन तत्सरःअस्मात्प्रशंसायां मतुप्सरस्वतीति वाङ्नामसु पठितम्। (निघं०१.११) (वाजेभिः) सर्वविद्याप्राप्ति-निमित्तैरन्नादिभिः सह। वाज इत्यन्ननामसु पठितम्। (निरु०२.७) (वाजिनीवती) सर्वविद्यासिद्धक्रियायुक्तावाजिनः क्रियाप्राप्तिहेतवो व्यवहारस्तद्वती। वाजिन इति पदनामसु पठितम्। (निघं०५.६) अनेन वाजिनीति गमनार्था प्राप्त्यर्था च क्रिया गृह्यते(यज्ञम्) शिल्पिविद्यामहिमानं कर्म च। यज्ञो वै महिमा। (श० ब्रा०६.२.३.१८) यज्ञो वै कर्म। (श० ब्रा० १.१.२.१) (वष्ट) कामसिद्धिप

ऋग्वेद 1.3.9

  विश्वे देवासौ अस्रिध एहिमायासो अद्रुहः मेधं जुषन्त वह्नयः॥९॥ विश्व। दे॒वासःअनिधः। एहि मायासः। अदुहःमेधम्। जुषन्त। वह्नयः॥९॥ पदार्थ:-(विश्वे) समस्ताः (देवासः) वेदपारगाः (अस्रिधः) अक्षयविज्ञानवन्तः। क्षयार्थस्य नपूर्वकस्य सिधेः क्विबन्तस्य रूपम्। (एहिमायास:) आसमन्ताच्चेष्टायां प्रज्ञा येषां ते। चेष्टार्थस्याङ्यूर्वस्य ईहधातोः सर्वधातुभ्य इन्। (उणा०४.११९) इतीन्प्रत्ययान्तं रूपम्। मायेति प्रज्ञानामसु पठितम्। (निघं०३.९) (अद्रुहः) द्रोहरहिताः (मेधम्) ज्ञानक्रियामयं शुद्धं यज्ञं सर्वविद्वद्भिः शुभैर्गुणैः कर्मभिर्वा सह सङ्गमम्। मेध इति यज्ञनामसु पठितम्। (निघं०३.१७) (जुषन्त) प्रीत्या सेवध्वम्। (वह्नयः) सुखस्य वोढारः। अयं वहेर्निप्रत्ययान्तः प्रयोगः वह्नयो वोढारः। (निरु०८.३)॥९॥ अन्वयः-हे एहिमायासोऽनिधोऽहो वह्नयो विश्वेदेवासो भवन्तो ज्ञानक्रियाभ्यां मेधं सेधनीयं यज्ञं जुषन्त॥९॥भावार्थ:-ईश्वर आज्ञापयति-भो विद्वांसः ! परक्षयद्रोहरहिता विशालविद्यया क्रियावन्तो भूत्वा सर्वेभ्यो मनुष्येभ्यो विद्यासुखयोः सदा दातारो भवन्त्विति।।९। पदार्थ:-(एहिमायासः) हे क्रिया में बुद्धि रखनेवाले (अस्रिधः) दृढ़ ज्ञान

ऋग्वेद 1.3.8

  विश्वे देवासो अ॒प्तुरः सुतमागन्त तूर्णयः उस्रा इव स्वसंराणि॥८॥ विश्वे देवासः। अ॒प्तुरः। सुतम्। आ। गन्त। तूर्णयः। उस्रा:ऽइव। स्वसंराणि॥८॥ पदार्थ:-(विश्वे) समस्ताः (देवासः) विद्यावन्तः (अप्तुरः) मनुष्याणामपः प्राणान् तुतुरति विद्यादिबलानि प्राप्नुवन्ति प्रापयन्ति च ते। अयं शीघ्रार्थस्य तुरेः क्विबन्तः प्रयोगः। (सुतम्) अन्तःकरणाभिगतं विज्ञानं कर्तुम् (आगन्त) आगच्छत। अयं गमेर्लोटो मध्यमबहुवचने प्रयोगः। बहुलं छन्दसि। (अष्टा०२.४.७३) इत्यनेन शपो लुकि कृते तप्तनप्तनथनाश्च। (अष्टा०७.१.४५) इति तबादेशे पित्वादनुनासिकलोपाभावः। (तूर्णयः) सर्वत्र विद्यां प्रकाशयितुं त्वरमाणाः। त्रित्वरा सम्भ्रमे इत्यस्मात् वहिश्रिश्रुयुगुग्लाहात्वरिभ्यो नित्। (उणा०४.५३) अत्र नेरनुवर्तनात्तूर्णिरिति सिद्धम्। (उस्रा इव)सूर्यकिरणा इव। उस्रा इति रश्मिनामसु पठितम्। (निरु०१.५) (स्वसराणि) अहानि। स्वसराणीत्यह मसु पठितम्। (निरु०१.९)॥८॥ अन्वयः-हे अप्तुरस्तूर्णयो विश्वेदेवा यूयं स्वसराणि प्रकाशयितुं उस्राः किरणा इव सुतं कर्मोपासनाज्ञानरूपं व्यवहारं प्रकाशयितुमागन्त नित्यमागच्छत समन्तात्प्राप्नुत।८॥ भावार्थ:-अत्रोपमालङ्कारःईश

ऋग्वेद 1.3.7

  ओमा॑सश्चर्षणीधृतो विश्वे देवास आ गत। दाश्वांसौ दाशुषः सुतम्॥७॥ ओमासः। चर्षणिऽधृतः। विश्वे। देवासः। आ| गत। दाश्वांसः। दाशुषः। सुतम्॥७॥ पदार्थ:-(ओमासः) रक्षका ज्ञानिनो विद्याकामा उपदेशप्रीतयो विज्ञानतृप्तयो याथातथ्यावगमाः शुभगुणप्रवेशाः सर्वविद्याश्राविणः परमेश्वरप्राप्तौ व्यवहारे च पुरुषार्थिनः शुभविद्यागुणयाचिन: क्रियावन्तः सर्वोपकारमिच्छुका विज्ञाने प्रशस्ता आप्ताः सर्वशुभगुणालिङ्गिनो दुष्टगुणहिंसकाः शुभगुणदातार: सौभाग्यवन्तो ज्ञानवृद्धाः। अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीत्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु। अविसिविसिशुषिभ्यः कित् इत्यनेनौणादिकेन सूत्रेणावधातोरोम् शब्द: सिध्यति। ओमास इति पदनामसु पठितम्। (निघं०४.३) (चर्षणीधृतः) सत्योपदेशेन मनुष्येभ्यः सुखस्य धर्तारः। चर्षणय इति मनुष्यनामसु पठितम्। (निघं०२.३) (विश्वेदेवासः) देवा दीव्यन्ति विश्वे सर्वे च ते देवा विद्वांसश्च ते। विश्वेदेवा इति पदनामसु पठितम्। (निघं०५.६) (आ गत) समन्तात् गमयत। इत्यत्र गमधातोर्ज्ञानार्थः प्रयोगः (दाश्वांसः) सर्वस्याभयदातारः। दाश्वान् साह्वान् मीढ्वांश्च। (अष्टा०६.१.१२)

ऋग्वेद 1.3.6

  इन्द्राया॑हि तूतुजान उप ब्रह्माणि हरिवः सुते द॑धिष्व नश्चनः॥६॥५॥ इन्द्र। आयाहि। तूतुजानः। उप। ब्रह्माणि। हरिवः। सुते। दधिष्वनःचनः॥६॥ पदार्थ:-(इन्द्र) अयं वायुःविश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना। (ऋ०१.१५.१०) अनेन प्रमाणेनेन्द्रशब्देन वायुर्गृह्यते(आ) समन्तात् (याहि) याति समन्तात् प्रापयति (तूतुजान:) त्वरमाणः । तूतुजान इति क्षिप्रनामसु पठितम्। (निघं०२.१५) (उप) सामीप्यम् (ब्रह्माणि) वेदस्थानि स्तोत्राणि (हरिवः) वेगाद्यश्ववान्। हरयो हरणनिमित्ताः प्रशस्ताः किरणा विद्यन्ते यस्य सः। अत्र प्रशंसायां मतुप्। मतुवसो रुः सम्बुद्धौ छन्दसीत्यनेन रुत्वविसर्जनीयौ। छन्दसीरः इत्यनेन वत्वम्। हरी इन्द्रस्य। (निघं०१.१५) (सुते) आभिमुख्यतयोत्पन्नौ वाग्व्यवहारौ (दधिष्व) दधते (नः) अस्मभ्यमस्माकं वा (चनः) अन्नभोजनादिव्यवहारम्॥६॥ अन्वयः-यो हरिवो वेगवान् तूतुजान इन्द्रो वायुः सुते ब्रह्माण्यायाहि समन्तात् प्राप्नोति स एव चनो दधिष्व दधते॥६॥ भावार्थ:मनुष्यैरयंवायुःशरीरस्थःप्राणःसर्वचेष्टानिमित्तोऽन्नपानादानयाचनविसर्जनधातुविभागाभिसरणहेतुर्भूत्वा पुष्टिवृद्धिक्षयकरोऽस्तीति बोध्यम्॥६॥पदार्थः-(हरिवः) जो वेगादिग

ऋग्वेद 1.3.5

इन्द्राया॑हि धियेषितो विप्रजूतः सुताव॑तः उप ब्रह्माणि वाघतः॥५॥ इन्द्र। आ। याहि। धिया। दृषितः। विप्रेऽजूतः। सुतऽवतः। उप। ब्रह्माणि। वाघतः॥५॥ पदार्थः-(इन्द्र) परमेश्वर! (आयाहि) प्राप्तो भव (धिया) प्रकृष्टज्ञानयुक्त्या बुद्धयोत्तमकर्मणा वा (इषितः) प्रापयितव्यः (विप्रजूतः) विप्रेर्मेधाविभिर्विद्वद्भिर्जातः। विप्र इति मेधाविनामसु पठितम्। (निघ०३.१५) (सुतावत:) प्राप्तपदार्थविद्यान् (उप) सामीप्ये (ब्रह्माणि) विज्ञातवेदार्थान् ब्राह्मणान्। ब्रह्मवै ब्राह्मणः(श० ब्रा० १३.१.५.३) (वाघत:) यज्ञविद्यानुष्ठानेन सुखसम्पादिन ऋत्विजःवाघत इति ऋत्विङ्नामसु पठितम्। (निघं०३.१८)॥५॥ अन्वयः-हे इन्द्र! धियेषितः विप्रजूतस्त्वं सुतावतो ब्रह्माणि वाघतो विदुष उपायाहि॥५॥ भावार्थ:-मनुष्यैर्मूलकारणस्येश्वरस्य संस्कृतया बुद्धया विज्ञानतः साक्षात्प्राप्तिः कार्या। नैवं विनाऽयं केनचिन्मनुष्येण प्राप्तुं शक्य इति॥५॥ पदार्थ:-(इन्द्र) हे परमेश्वर ! (धिया) निरन्तर ज्ञानयुक्त बुद्धि वा उत्तम कर्म से (इषितः) प्राप्त होने और (विप्रजूतः) बुद्धिमान् विद्वान् लोगों के जानने योग्य आप (ब्रह्माणि) ब्राह्मण अर्थात् जिन्होंने वेदों का अ

ऋग्वेद 1.3.4

इन्द्राया॑हि चित्रभानो सुता डुमे त्वा॒यवः अण्वीभिस्तना पूतासः॥४॥ इन्द्रआ। याहि। चित्रभानो। सुताः। इमे। त्वा॒यवः।अण्वीभिःतना। पूतासः॥४॥ पदार्थ:-(इन्द्र) परमेश्वर सूर्यो वा। अत्राह यास्काचार्य:-इन्द्र इरां दृणातीति वेरां ददातीति वेरां दधातीति वेरां दारयत इति वेरां धारयत इति वेन्दवे द्रवतीति वेन्दौ रमत इति वेधे भूतानीति वा। तद्यदेनं प्राणैः समै स्तदिन्द्रस्येन्द्रत्वमिति विज्ञायते। इदं करणादित्याग्रायण इदं दर्शनादित्यौपमन्यव इन्दतेर्वेश्वर्यकर्मण इदञ्छत्रूणां दारयिता वा द्रावयिता वा दारयिता च यज्वनाम्। (निरु०१०.८) इन्द्राय साम गायत नेन्द्रादृते पवते धाम किंचनेन्द्रस्य नु वीर्याणि प्रवोचमिन्द्रे कामा अयंसत। (निरु०७.२) इराशब्देनान्नं पृथिव्यादिकमुच्यते। तद्दारणात्तद्दानात्तद्धारणात्। चन्द्रलोकस्य प्रकाशाय द्रवणात्तत्र रमणादित्यर्थेनेन्द्रशब्दात् सूर्यलोको गृह्यते। तथा सर्वेषां भूतानां प्रकाशनात् प्राणैर्जीवस्योपकरणादस्य सर्वस्य जगत उत्पादनाद् दर्शनहेतोश्च सर्वेश्वर्ययोगाद् दुष्टानां शत्रूणां विनाशकाद् दूरे गमकत्वाद् यज्वनां रक्षकत्वाच्चेत्यर्थादिन्द्रशब्देनेश्वरस्य ग्रहणम्। एवं परमेश्वराद्व

ऋग्वेद 1.3.3

  दस्रा युवाकवः सुता नासत्या वृक्तर्हिषः आ यातं रुद्रवर्तनी॥३॥ दा। युवाकवः। सुताः। नासत्या। वृक्तबर्हिषः। आ। यातम्। रुद्रवर्तनी॥ ३॥ पदार्थ:-(दस्रा) दुःखानामुपक्षयकर्तारौदसु उपक्षये इत्यस्मादौणादिको रक्प्रत्ययः(युवाकवः) सम्पादितमिश्रितामिश्रितक्रियाः। यु मिश्रणे अमिश्रणे चेत्यस्माद्धातोरोणादिक आकुः प्रत्ययः। (सुताः) अभिमुख्यतया पदार्थविद्यासारनिष्पादिनः। अत्र बाहुलकात्कर्तृकारक औणादिकः क्तप्रत्ययः । (नासत्या) न विद्यतेऽसत्यं कर्मगुणो वा ययोस्तौ। नभ्राण्नपान्नवेदा०। (अष्टा०६.३.७५) नासत्यौ चाश्विनौ सत्यावेव नासत्यावित्यौर्णवाभः सत्यस्य प्रणेतारावित्याग्रायणः। (निरु०६.१३) (वृक्तबर्हिषः) शिल्पफलनिष्पादिन ऋत्विजः। वृक्तबर्हिष इति ऋत्विनामसु पठितम्। (निघं०३.१८) (आ) समन्तात् (यातम्) गच्छतो गमयतः। अत्र व्यत्ययः, अन्तर्गतो ण्यर्थश्च। (रुद्रवर्त्तनी) रुद्रस्य प्राणस्य वर्त्तनिर्मार्गो ययोस्तौ॥॥ _ __ अन्वयः-हे सुता युवाकवो वृक्तबर्हिषो विद्वांसः शिल्पविद्याविदो भवन्तो यो रुद्रवर्त्तनी दस्रो नासत्यो पूर्वोक्तावश्विनावायातं समन्ताद् यानानि गमयतस्तौ यदा यूयं साधयिष्यथ तदोत्तमानि सुखानि प्राप्स्यथ॥३॥

ऋग्वेद 1.3.2

  अश्विना पुरुदंससा नरा शवीरया धिया धिष्ण्या व तं गिरः॥२॥ अश्विना। पुरुऽदंससा। नरा। शवीरया। धिया। धिष्ण्या। वनतम्। गिरः॥२॥ पदार्थ:-(अश्विना) अग्निजले (पुरुदंससा) पुरूणि बहुनि दंसांसि शिल्पविद्यार्थानि कर्माणि याभ्यां तौ। दंस इति कर्मनामसु पठितम्। (निघं० २.१) (नरा) शिल्पविद्याफलप्रापको (धिष्ण्या) यौ यानेषु वेगादीनां तीव्रतासंवपने कर्त्तव्ये धृष्टौ (शवीरया) वेगवत्या। शव गतावित्यस्माद्धातो रन्प्रत्यये टापि च शवीरेति सिद्धम्। (धिया) क्रियया प्रज्ञया वा। धीरिति कर्मप्रज्ञयो मसु वाविन्द्रश्चेत्यत्रोक्तम्। (वनतम्) यो सम्यग्वाणीसेविनो स्तः। अत्र व्यत्ययः। (गिरः) वाचः॥२॥ __ अन्वयः-हे मनुष्या! यूयं यौ पुरुदंससौ नरौ धिष्ण्यावश्विनौ शवीरया धिया गिरो वनतं वाणीसेविनौ स्तः, तो सेवयत।।२। भावार्थ:-अत्राप्यग्निजलयोर्गुणानां प्रत्यक्षकरणाय मध्यमपुरुषप्रयोगत्वात् सर्वेः शिल्पिभिस्तो तीव्रवेगवत्या मेधया पुरुषार्थेन च शिल्पविद्यासिद्धये सम्यक् सेवनीयो स्तः। ये शिल्पविद्यासिद्धिं चिकीर्षन्ति तैस्तद्विद्या हस्तक्रियाभ्यां सम्यक् प्रसिद्धीकृत्योक्ताभ्यामश्विभ्यामुपयोगः कर्त्तव्य इति। सायणाचार्यादिभिर्मध्यमपुरु

ऋग्वेद 1.3.1

  अथास्य द्वादशर्चस्य तृतीयसूक्तस्य मधुच्छन्दा ऋषिः। १-३ अश्विनौ; ४-६ इन्द्रः; ७-९ विश्वेदेवाः; १०-२२ सरस्वती देवताः। १,३, ५-१०, १२ गायत्री; २ निद्गायत्री; ४,११ पिपीलिकामध्यानिचूद्गायत्री च छन्दः। षड्जः स्वरः॥ तत्रादावश्विनावुपदिश्यते। अब तृतीय सूक्त का प्रारम्भ करते हैं। इसके आदि के मन्त्र में अग्नि और जल अश्वि नाम से लिया है अश्विना यज्चरीरिषो द्रवत्पाणी शुभस्पती। पुरुभुजा चनस्यतम्॥१॥ अविना। यज्वरीः। इषः। द्रवत्ऽपाणी। शुभःऽपी। पुरुऽभुजा। चनस्यतम्॥१॥ पदार्थः- (अश्विना) जलाग्नी। अत्र सुपामित्याकारादेशःया सुरथा रथीतोभा दे॒वा दिविस्पृशाअश्विना ता हवामहे॥ (ऋ०१.२२.२) नहि वामस्ति दूरके यत्रा रथेन गच्छथः। (ऋ०१.२२.४) वयं यौ सुरथौ शोभना रथा याभ्यां तो, रथीतमा भूयांसो रथा विद्यन्ते ययोस्तौ रथी, अतिशयेन रथी रथीतमौ देवी शिल्पविद्यायां दिव्यगुणप्रकाशको, दिविस्पृशा विमानादियानैः सूर्यप्रकाशयुक्तेऽन्तरिक्षे मनुष्यादीन् स्पर्शयन्तौ, उभा उभौ ता तौ हवामहे गृह्णीमः। यत्र मनुष्या वां तयोरश्विनोः साधिपित्वाचलितयोः सम्बन्धयुक्तेन हि यतो गच्छन्ति तत्र गृहं विद्याधिकरणं दूरं नैव भवतीति यावत्। अथातो ह्युस्थान

ऋग्वेद 1.2.9

  कवी नौ मित्रावरुणा तुविजाता उरुक्षया। दक्षं दधाते अपसम्॥९॥४॥ कवी। नः। मित्रावरुणा। तुव॒ऽजाती। उसऽक्षयादाम्। धाते। अपसम्॥९॥ पदार्थ:-(कवी) क्रान्तदर्शनौ सर्वव्यवहारदर्शनहेतू। कविः क्रान्तदर्शनो भवति कवतेर्वा। (निरु०१२.१३) एतन्निरुक्ताभिप्रायेण कविशब्देन सुखसाधको मित्रावरुणौ गृह्यते। (न:) अस्माकम् (मित्रावरुणौ) पूर्वोक्तौ (तुविजातौ) बहुभ्यः कारणेभ्यो बहुषु वोत्पन्नौ प्रसिद्धौ। तुवीति बहुनामसु पठितम्। (निघ०३.१) (उरुक्षया) बहुषु जगत्पदार्थेषु क्षयो निवासो ययोस्तौ। अत्र सुपां सुलुगित्याकारः। उर्विति बहुनामसु पठितम्। (निघ०३.१) 'क्षि निवासगत्योः' अस्य धातोरधिकरणार्थः क्षयशब्दः। (दक्षम्) बलम् (दधाते) धरतः (अपसम्) कर्म। अप इति कर्मनामसु पठितम्। (निरु० २.१) व्यत्ययो बहुलमिति लिङ्गव्यत्ययः । इदमपि सायणाचार्येण न बुद्धम्॥९॥ अन्वयः-इमौ तुविजातावुरुक्षयौ कवी मित्रावरुणौ नोऽस्माकं दक्षमपसं च दधाते धरतः॥९॥ भावार्थ:-ब्रह्माण्डस्थाभ्यां बलकर्मनिमित्ताभ्यामेताभ्यां सर्वेषां पदार्थानां सर्वचेष्टाविद्यायोः पुष्टिधारणे भवत इति॥९॥ आदिमसूक्तोक्तेन शिल्पविद्यादिमुख्यनिमित्तेनाग्निनार्थेन सहचरितानां वा

ऋग्वेद 1.2.8

  ऋतेन मित्रावरुणावृतावृधावृतस्पृशा। क्रतुं बृहन्तमाशाथे॥८॥ ऋतेन। मित्रावरुणो। ऋतऽवृधौ। ऋतस्पृशा। क्रतुम्। बृहन्तम्। आशाथे॥८॥ पदार्थः-(ऋतेन) सत्यस्वरूपेण ब्रह्मणा। ऋतमिति सत्यनामसु पठितम्। (निघं०३.१०) अनेनेश्वरस्य ग्रहणम्। ऋतमित्युदकनामसु च। (निघं०१.१२) (मित्रावरुणौ) पूर्वोक्तौ। देवताद्वन्द्वे च। (अष्टा०६.३.२६) अनेनानङादेशः(ऋतावृधौ) ऋतं ब्रह्म तेन वर्धयितारौ ज्ञापको जलाकर्षणवृष्टिनिमित्ते वा। अत्रान्येषामपि दृश्यत इति दीर्घः। (ऋतस्पृशा) ऋतस्य ब्रह्मणो वेदस्य स्पर्शयितारौ प्रापको जलस्य च (क्रतुम्) सर्व सङ्गतं संसाराख्यं यज्ञम्। (बृहन्तम्) महान्तम् (आशाथे) व्याप्नुतः। छन्दसि लुङ्ललिटः। (अष्टा०३.४.६) इति वर्तमाने लिट्। वा छन्दसि सर्वे विधयो भवन्तीति नुडभावः॥८॥ अन्वयः-ऋतेनोत्पादितावृतावृधावृतस्पृशो मित्रावरुणो बृहन्तं क्रतुमाशाथे।॥८॥ भावार्थ:-ब्रह्मसहचर्य्ययैतौ ब्रह्मज्ञाननिमित्ते जलवृष्टिहेतू भूत्वा सर्वमग्न्यादिमू-मूर्तं जगद्व्याप्य वृद्धिक्षयकर्त्तारो व्यवहारविद्यासाधकौ च भवत इति॥८॥ इमावस्माकं कि कि धारयत इत्युपदिश्यते वे हम लोगों के कौन-कौन पदार्थों के धारण कनरेवाले हैं, इस बात का प्रक

ऋग्वेद 1.2.7

  मित्रम्। हुवे। पूतऽदक्षम्। वरुणम्। च। रिशादसम्। धियम्। घृताचीम्। साधन्ता॥७॥ पदार्थ:-(मित्रम्) सर्वव्यवहारसुखहेतुं ब्रह्माण्डस्थं सूर्यं शरीरस्थं प्राणं वा। मित्र इति पदनामसु पठितम्। (निघं०५.४) अतः प्राप्त्यर्थः। मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम्। मित्रः कृष्टीरनिमिाभिचष्टे मित्राय हव्यं घृतवज्जुहोत॥ (ऋ०३.५९.१) अत्र मित्रशब्देन सूर्य्यस्य ग्रहणम्। प्राणो वै मित्रोऽपानो वरुणः। (श०ब्रा०८.२.५.६) अत्र मित्रवरुणशब्दाभ्यां प्राणापानयोर्ग्रहणम्। (हुवे) तन्निमित्तां बाह्याभ्यन्तरपदार्थविद्यामादद्याम्। बहुलं छन्दसीति विकरणाभावो व्यत्ययेनात्मनेपदं लिडर्थे लट् च(पूतदक्षम्) पूतं पवित्रं दक्षं बलं यस्मिन् तम्। दक्ष इति बलनामसु पठितम्। (निघं०२.९) (वरुणं च) बहिःस्थं प्राणं शरीरस्थमपानं वा। (रिशादसम्) रिशा रोगाः शत्रवो वा हिंसिता येन तम्। (धियम्) कर्म धारणावती बुद्धि वा (घृताचीम्) घृतं जलमञ्चति प्रापयतीति तां क्रियाम्। घृतमित्युदकनामसु पठितम्। (निघ०१.१२) (साधन्ता) सम्यक् साधयन्तौ। अत्र सुपां सुलुगित्याकारादेशः॥७॥ अन्वयः-अहं शिल्पविद्यां चिकीर्षुर्मनुष्यो यौ घृताची धियं साधन्तौ

ऋग्वेद 1.2.6

  वायविन्द्रश्च सुन्वत आ या॑त॒मुप॑ निष्कृतम्। मक्ष्वित्था धिया नरा॥६॥ वायो इति। इन्द्रः। चसुन्व॒तःआ। यातम्। उप। निःऽकृतम्। मक्षु। इत्था। धिया। नरा॥६॥ पदार्थ:-(वायो) सर्वान्तर्यामिन्नीश्वर! (इन्द्रश्च) अन्तरिक्षस्थः सूर्यप्रकाशो वायुर्वा । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा। (अष्टा०५.२.९३) इति सूत्राशयादिन्द्रशब्देन जीवस्यापि ग्रहणम्। प्राणो वै वायुः। (श० ब्रा०८.१.७.२) अत्र वायुशब्देन प्राणस्य ग्रहणम्। (सुन्वतः) अभिनिष्पादयतः (आ) समन्तात् (यातम्) प्राप्नुतः। अत्र व्यत्ययः। (उप) सामीप्यम् (निष्कृतम्) कर्मणां फलं च (मक्षु) त्वरितगत्या। मक्ष्विति क्षिप्रनामसु पठितम्। (निघ०२.१५) (इत्था) धारणपालनवृद्धिक्षयहेतुना। था हेतौ च छन्दसि। (अष्टा०५.२.२६) इति थाप्रत्ययः। (धिया) धारणावत्या बुद्धया कर्मणा वा। धीरिति प्रज्ञानामसु पठितम्। (निघं०३.९) कर्मनामसु च। (निघं० २.१) (नरा) नयनकर्तारौ। सुपां सुलुगित्याकारादेशः॥६॥ अन्वयः-हे वायो! नरा नराविन्द्रवायू मश्वित्था यथा सुन्वतस्तथा तो धिया निष्कृतमुपायातमुपायातः॥६॥ भावार्थ:-यथाऽत्र ब्रह्माण्डस्थाविन्द्रवायू सर्वप्रकाशक

ऋग्वेद 1.2.5

  वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू। तावा या॑ति॒मुप॑ द्र्वत्॥५॥३॥ वायो इति। इन्द्रः। च। चेतथः। सुतानाम्। वाजिनीवसू इति। तौ। आ। यातम्। उप। द्रवत्॥५॥ पदार्थ:-(वायो) ज्ञानस्वरूपेश्वर! (इन्द्रः) पूर्वोक्तः (च) अनुक्तसमुच्चयार्थे तेन वायुश्च (चेतथः) चेतयतः प्रकाशयित्वा धारयित्वा च संज्ञापयतः। अत्र व्यत्ययः योऽन्तर्गतो ण्यर्थश्च। (सुतानाम्) त्वयोत्पादितान् पदार्थान्। अत्र शेषे षष्ठी। (वाजिनीवसू) उषोवत्प्रकाशवेगयोर्वसतः। वाजिनीत्युषसो नामसु पठितम्। (निघं०१.८) (तौ) इन्द्रवायू (आयातम्) आगच्छतः। अत्रापि व्यत्ययः। (उप) सामीप्ये (द्रवत्) शीघ्रम्। द्रवदिति क्षिप्रनामसु पठितम्। (निघं० २.१५)॥५॥ अन्वयः-हे वायो ईश्वर! यतो भवद्रचितौ वाजिनीवसू च पूर्वोक्ताविन्द्रवायू सुतानां सुतान् भवदुत्पादितान् पदार्थान् चेतथ: संज्ञापयतस्ततस्तान् पदार्थान् द्रवच्छीघ्रमुपायातमुपागच्छतः॥५॥ भावार्थ:-यदि परमेश्वर एतौ न रचयेत्तर्हि कथमिमौ स्वकार्याकरणे समर्थों भवत इति॥५॥ __ इति तृतीयो वर्गः॥ पदार्थ:-हे (वायो) ज्ञानस्वरूप ईश्वर! आपके धारण किये हुए (वाजिनीवसू) प्रात:काल के तुल्य प्रकाशमान (इन्द्रश्च) पूर्वोक्त सूर्य्यलोक

ऋग्वेद 1.2.4

  इन्द्रवायू डुमे सुता उप प्रोभिरा गतम्। इन्दवो वामुशन्ति हि॥४॥ इन्द्रवायू इति। इमे। सुताः। उप। प्रय:ऽभिः। आ। गतम्। इन्दवः। वाम्। शन्ति। हि॥४॥ पदार्थः-(इन्द्रवायू) इमो प्रत्यक्षौ सूर्यपवनौ। इन्द्रेण रोचना दिवो दृळानि दंहितानि च। स्थिराणि न पराणुदे॥(ऋ०८.१४.९) ययेन्द्रेण सूर्यलोकेन प्रकाशमानाः किरणा धृताः, एवं चस्वाकर्षणशक्त्या पृथिव्यादीनि भूतानि दृढानि पुष्टानि स्थिराणि कृत्वा इंहितानि धारितानि सन्ति। न पराणुदे अतो नैव स्वस्वकक्षां विहायेतस्ततो भ्रमणाय समर्थानि भवन्ति। इमे चिदिन्द्र रोदसी अपारे यत्संगृभ्णा मघवन् काशिरित्तै। (ऋ०३.३०.५) इमे चिदिन्द्र रोदसी रोधसी द्यावापृथिव्यौ विरोधनाद्रोधः (कूलं निरुणद्धि स्रोत: कूलं) रुजतेर्विपरीताल्लोष्टोऽविपर्ययेणापारे दूरपारे यत्संगृभ्णासि मघवन् काशिस्ते महान्। अहस्तमिन्द्र संपिणक्कुणारुम्। (ऋ०३.३०.८) अहस्तमिन्द्र कृत्वा संपिण्ढि परिक्वणनं मेघम्। (निरु०६.१) यतोऽयं सूर्यलोको भूमिप्रकाशौ धारितवानस्ति, अत एव पृथिव्यादीनां निरोधं कुर्वन् पृथिव्यां मेघस्य च कूलं स्रोतश्चाकर्षणेन निरुणद्धि। यथा बाहुवेगेनाकाशे प्रतिक्षिप्तो लोष्ठो मृत्तिकाखण्ड: पुनर्विपर्य

ऋग्वेद 1.2.3

वायो तव॑ प्रपञ्चती धेा जिगाति दाशुषे। उरूची सोमपीतये॥३॥ वायो इति। तवा प्रऽपृञ्चती। धेना। जिगाति। दाशुषै। उरूची। सोमऽपीतये॥३॥ पदार्थ:-(वायो) वेदवाणीप्रकाशकेश्वर! (तव) जगदीश्वरस्य (प्रपञ्चती) प्रकृष्टा चासौ पञ्चती चार्थसम्बन्धेन सकलविद्यासम्पर्ककारयित्री (धेना) वेदचतुष्टयी वाक्। धेनेति वाड्नामसु पठितम्(निघ०१.११) (जिगाति) प्राप्नोति। जिगातीति गतिकर्मसु पठितम्। (निघं०२.१४) तस्मात्प्राप्त्यर्थो गृह्यते। (दाशुषे) निष्कपटेन विद्यां दात्रे पुरुषार्थिने मनुष्याय (उरूची) बह्वीनां पदार्थविद्यानां ज्ञापिकाउर्विति बहुनामसु पठितम्। (निघ०३.१) (सोमपीतये) सूयन्ते ये पदार्थास्तेषां पीति: पानं यस्य तस्मै विदुषे मनुष्याय। अत्र सह सुपेति समासः भौतिकपक्षे त्वयं विशेष:-(वायो) पवनस्य योगेनैव (तव) अस्य (प्रपञ्चती) शब्दोच्चारणसाधिका (धेना) वाणी (दाशुषे) शब्दोच्चारणकर्त्रे (उरूची) बह्वर्थज्ञापिका। अन्यत्पूर्ववत्॥३॥ अन्वयः-हे वायो परमेश्वर! भवत्कृपया या तव प्रपञ्चत्युरूची धेना सा सोमपीतये दाशुषे विदुषे जिगाति। तथा तवास्य वायो प्राणस्य प्रपञ्चत्युरूची धेना सोमपीतये दाशुषे जीवाय जिगाति॥३॥ भावार्थ:-अत्रापि श्लेषालङ्

ऋग्वेद 1.2.2

  वार्य उक्थेभिर्जरन्ते त्वामच्छा जरितारः सुतसोमा अहुर्विदः॥२॥ वायो इति। उक्थेभिः। जरन्ते। त्वाम्। अच्छ। जरितारः। सुतऽसोमाः। अहुर्विदः॥२॥ पदार्थ:-(वायो) अनन्तबलेश्वर! (उक्थेभिः) स्तोत्रैःअत्र बहुलं छन्दसीति भिसः स्थान ऐसभावः। (जरन्ते) स्तुवन्तिजरा स्तुतिर्जरते: स्तुतिकर्मणः। (निरु०१०.८) जरत इत्यर्चतिकर्मा। (निघं०३.१४) (त्वाम्) भवन्तम् (अच्छ) साक्षात्। निपातस्य च। (अष्टा०६.३.१३६) इति दीर्घः(जरितारः) स्तोतारोऽर्चकाश्च (सुतसोमाः) सुता उत्पादिताः सोमा ओषध्यादिरसा विद्यार्थं यैस्ते (अहर्विदः) य अहर्विज्ञानप्रकाशं विन्दन्ति प्राप्नुवन्ति ते। भौतिकवायुग्रहणे ख्वयं विशेष:-(वायो) गमनशीलो विमानादिशिल्पविद्यानिमित्तः पवनः (जरितारः) स्तोतारोऽर्थाद् वायुगुणस्तावका भवन्ति यतस्तद्विद्याप्रकाशितगुणफला सती सर्वोपकाराय स्यात्॥२॥ अन्वयः-हे वायो! अहर्विदः सुतसोमा जरितारो विद्वांस उक्थेभिस्त्वामच्छा जरन्ते॥२॥ भावार्थ:-अत्र श्लेषालङ्कारः। अनेन मन्त्रेण वेदादिस्थैः स्तुतिसाधनैः स्तोत्रैः परमार्थव्यवहारविद्यासिद्धये वायुशब्देन परमेश्वर भौतिकयोर्गुणप्रकाशेनोभे विद्ये साक्षात्कर्त्तव्ये इति। अत्रोभयार्थग्रहणे प

ऋग्वेद 1.2.1

  अथ नवर्चस्य द्वितीयसूक्तस्य मधुच्छन्दा ऋषिः। १-३ वायुः; ४-६ इन्द्रवायुः ७-९ मित्रावरुणौ च देवताः। १, २ पिपीलिकामध्यानिवृद्गायत्री; ३-५, ७-९ गायत्री; ६ निवृद्गायत्री च छन्दःषड्जः स्वरः॥ तत्र येन सर्वे पदार्थाः शोभिताः सन्ति सोऽर्थ उपदिश्यते। अब द्वितीय सूक्त का प्रारम्भ है। उसके प्रथम मन्त्र में उन पदार्थों का वर्णन किया है कि जिन्होंने सब पदार्थ शोभित कर रक्खे हैं वायवा याहि दर्शतमे सोमा अरंकृताः तेषां पाहि श्रुधी हव॑म्॥१॥ वायो इति। आ। याहि। दर्शत। इमे। सोमाः। अरंऽकृताःतेषाम्। पाहि। श्रुधि। हवम्॥ १०॥ पदार्थः-(वायो) अनन्तबल सर्वप्राणान्तर्यामिन्नीश्वर तथा सर्वमूर्त्तद्रव्याधारो जीवनहेतुर्भोतिको वाप्र वावृजे सुप्रया बर्हिरामा विश्वपतीव बीरिट इयाते। विशामुक्तोस॒षसः पूर्वहूतौ वायुः पूषा स्व॒स्तये नियुत्वान्॥ (यजु०३३.४४) अस्योपरि निरुक्तव्याख्यानरीत्येश्वर भौतिको पुष्टिकर्त्तारो नियन्तारौ द्वावर्थो वायुशब्देन गृह्यते। तद्यथा__ अथातो मध्यस्थाना देवतास्तासां वायुः प्रथमागामी भवति वायुर्वातवेत्तेर्वा स्याद्गतिकर्मण एतेरिति स्थौलाष्ठीविरनर्थको वकारस्तस्यैषा भवति। (वायवा याहि०) वायवा याहि दर्श

ऋग्वेद 1.1.10

  स नः पितेव सूनवेऽग्ने सूपायनो भव सर्चस्वा नः स्वस्तये॥९॥२॥ सः। नः। पिताऽइव। सूनवै। अग्न। सुऽउपायनः। भव। सचस्वा नः। स्वस्तये।। ९॥ पदार्थ:-(सः) जगदीश्वरः (न:) अस्मभ्यम् (पितेव) जनकवत् (सूनवे) स्वसन्तानाय (अग्ने) ज्ञानस्वरूप (सूपायन:) सुष्टु उपगतमयनं ज्ञानं सुखसाधनं पदार्थप्रापणं यस्मात्सः (भव, सचस्व) समवेतान् कुरु। अन्येषामपि दृश्यते। (अष्टा०६.३.१३७) इति दीर्घः। (न:) अस्मान् (स्वस्तये) सुखाय कल्याणाय च॥९॥ अन्वयः-हे अग्ने! स त्वं सूनवे पितेव नोऽस्मभ्यं सूपायनो भव। एवं नोऽस्मान् स्वस्तये सचस्व॥९॥ भावार्थ:-अत्रोपमालङ्कारः। सर्वैरवं प्रयत्नः कर्तव्य ईश्वरः प्रार्थनीयश्च-हे भगवन्! भवानस्मान् रक्षयित्वा शुभेषु गुणकर्मसु सदैव नियोजययथा पिता स्वसन्तानान्सम्यक् पालयित्वा सुशिक्ष्य शुभगुणकर्मयुक्तान् श्रेष्ठकर्मकृत॒श्च सम्पादयति, तथैव भवानपि स्वकृपयाऽस्मानिष्पादयत्विति।।९।। प्रथमसूक्ते पञ्चभिर्मन्त्रैः श्लेषालङ्कारेण व्यवहारपरमार्थविद्याद्वयसाधनं प्रकाशितमेवं चतुर्भिर्मन्त्ररीश्वरस्योपासना स्वभावश्चास्तीति। इदं सूक्तं सायणाचार्यादिभियूरोपाख्यदेशनिवासिभिश्चान्यथैव व्याख्यातम्॥९॥ इति प्रथमं सूक्तं

ऋग्वेद 1.1.9

 राजन्तमध्वराणां गोपामृतस्य दीदिविम्। वर्धमान स्वे दम॥८॥ राजन्तम्अध्वराणाम्। गोपाम्। तस्या दीदिविम्। वर्धमानम्। स्वे। दम।। ८॥ पदार्थ:-(राजन्तम्) प्रकाशमानम् (अध्वराणाम्) पूर्वोक्तानां यज्ञानां धार्मिकाणां मनुष्याणां वा (गोपाम्) गाः पृथिव्यादीन् पाति रक्षति तम् (ऋतस्य) सत्यस्य सर्वविद्यायुक्तस्य वेदचतुष्टयस्य सनातनस्य जगत्कारणस्य वा। ऋतमिति सत्यनामसु पठितम्। (निघं०३.१०) ऋत इति पदनामसु च। (निघं०५.४) (दीदिविम्) सर्वप्रकाशकम्। दिवो द्वे दीर्घश्चाभ्यासस्य। (उणा०४.५५) अनेन क्विन्प्रत्ययः। (वर्धमानम्) ह्रासरहितम् (स्वे) स्वकीये (दमे) दाम्यन्त्युपशाम्यन्ति दुःखानि यस्मिंस्तस्मिन् परमानन्दे पदे। दमुधातो: हलश्च। (अष्टा०३.३.१२१) अनेनाधिकरणे घञ्प्रत्ययः॥८॥ अन्वयः-वयं स्वे दमे वर्धमानं राजन्तमध्वराणां गोपामृतस्य दीदिविं परमेश्वरं नित्यमुपैमसि।।८॥ भावार्थ:-परमात्मा स्वस्य सत्तायामानन्दे च क्षयाज्ञानरहितोऽन्तर्यामिरूपेण सर्वान् जीवान्सत्यमुपदिशन्नाप्तान् संसारं च रक्षन् सदैव वर्तते। एतस्योपासका वयमप्यानन्दिता वृद्धियुक्ता विज्ञानवन्तो भूत्वाऽभ्युदयनिः श्रेयसं प्राप्ताः सदैव वर्तामह इति।।८। पदार्थान्व

ऋग्वेद 1.1.8

   उप॑ त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम्। नमो भरन्त एमसि॥७॥ उप। त्वाअग्ने। दिवेऽदिवे। दोषोऽवस्तः। धिया। वयम्। नमः। भरन्तः। आइमसि॥७॥ पदार्थ:-(उप) सामीप्ये (त्वा) त्वाम् (अग्ने) सर्वोपास्येश्वर (दिवेदिवे) विज्ञानस्य प्रकाशाय प्रकाशाय (दोषावस्तः) अहर्निशम्। दोषेति रात्रिनामसु पठितम्। (निघ०१.७) रात्रेः प्रसङ्गाद्वस्त इति दिननामात्र ग्राह्यम्। (धिया) प्रज्ञया कर्मणा वा (वयम्) उपासका: (नमः) नम्रीभावे (भरन्तः) धारयन्तः (आ) समन्तात् (इमसि) प्राप्नुमः ।।७॥ अन्वयः-हे अग्ने! वयं धिया दिवेदिवे दोषावस्तस्त्वा त्वां भरन्तो नमस्कुर्वन्तश्चोपैमसि प्राप्नुमः॥७॥ भावार्थ:-हे सर्वद्रष्टः सर्वव्यापिन्नुपासनाई! वयं सर्वकर्मानुष्ठानेषु प्रतिक्षणं त्वां यतो नैव विस्मरामः, तस्मादस्माकमधर्ममनुष्टातुमिच्छा कदाचिन्नैव भवति। कुतः? सर्वज्ञः सर्वसाक्षी भवान्सर्वाण्यस्मत्कार्याणि सर्वथा पश्यतीति ज्ञानात्।।७।पदार्थान्वयभाषा:-(अग्ने) हे सब के उपासना करने योग्य परमेश्वर ! हम लोग (दिवेदिवे) अनेक प्रकार के विज्ञान होने के लिये (धिया) अपनी बुद्धि और कर्मों से आपकी (भरन्तः) उपासना को धारण और (दोषावस्तः) रात्रिदिन में नि

ऋग्वेद 1.1.7

  यदङ्ग दाशुषे त्वमग्नै भद्रं करिष्यसि। तवेत्तत्सत्यमङ्गिरः॥६॥ यत्। अङ्गा दाशुषे। त्वम्। अग्ने। भद्रम्। करिष्यसि। तवा इत्। तत्। सत्यम्। अङ्गिरः॥६॥ पदार्थ:-(यत्) यस्मात् (अङ्ग) सर्वमित्र (दाशुषे) सर्वस्वं दत्तवते (त्वम्) मङ्गलमयः (अग्ने) परमेश्वर (भद्रम्) कल्याणं सर्वैः शिष्टेर्विद्वद्भिः सेवनीयम्। भद्रं भगेन व्याख्यातं भजनीयं भूतानामभिद्रवयतीति वा भाजनवद्वा। (निरु०४.१०) (करिष्यसि) करोषि। अत्र वा छन्दसि सर्वे विधयो भवन्ति इति लडथै लुट। (तव इत्) एव (तत्) तस्मात् (सत्यम्) सत्सु पदार्थेषु सुखस्य विस्तारकं सत्प्रभवं सद्भिर्गुणैरुत्पन्नम् (अङ्गिरः) पृथिव्यादीनां ब्रह्माण्डस्याङ्गानां प्राणरूपेण शरीरावयवानां चान्तर्यामिरूपेण रसरूपोऽङ्गिरास्तत्सम्बुद्धौ। प्राणो वा अङ्गिराः। (श० ब्रा०६.३.७.३) देहेऽङ्गारेष्वगिरा अङ्गारा अङ्कमा अञ्चनाः। (निरु०३.१७) अत्राप्युत्तमानामङ्गानां मध्येऽन्तर्यामी प्राणाख्योऽर्थो गृह्यते॥६॥ अन्वयः-हे अङ्गिरोऽअङ्गाग्ने! त्वं यस्मात् दाशुषे भद्रं करिष्यसि करोषि, तस्मात्तवेत्तवैवेदं सत्यं व्रतमस्ति॥६॥ ___ भावार्थ:-यो न्यायकारी सर्वस्य सुहृत्सन् दयालुः कल्याणकर्ता सर्वस्य सुख

ऋग्वेद 1.1.6

  अथैकः परमार्थ उपदिश्यते। अब अग्नि शब्द से ईश्वर का उपदेश अगले मन्त्र में किया है यदङ्ग दाशुषे त्वमग्नै भद्रं करिष्यसि। तवेत्तत्सत्यमङ्गिरः॥६॥ यत्। अङ्गा दाशुषे। त्वम्। अग्ने। भद्रम्। करिष्यसि। तवा इत्। तत्। सत्यम्। अङ्गिरः॥६॥ पदार्थ:-(यत्) यस्मात् (अङ्ग) सर्वमित्र (दाशुषे) सर्वस्वं दत्तवते (त्वम्) मङ्गलमयः (अग्ने) परमेश्वर (भद्रम्) कल्याणं सर्वैः शिष्टेर्विद्वद्भिः सेवनीयम्। भद्रं भगेन व्याख्यातं भजनीयं भूतानामभिद्रवयतीति वा भाजनवद्वा। (निरु०४.१०) (करिष्यसि) करोषि। अत्र वा छन्दसि सर्वे विधयो भवन्ति इति लडथै लुट। (तव इत्) एव (तत्) तस्मात् (सत्यम्) सत्सु पदार्थेषु सुखस्य विस्तारकं सत्प्रभवं सद्भिर्गुणैरुत्पन्नम् (अङ्गिरः) पृथिव्यादीनां ब्रह्माण्डस्याङ्गानां प्राणरूपेण शरीरावयवानां चान्तर्यामिरूपेण रसरूपोऽङ्गिरास्तत्सम्बुद्धौ। प्राणो वा अङ्गिराः। (श० ब्रा०६.३.७.३) देहेऽङ्गारेष्वगिरा अङ्गारा अङ्कमा अञ्चनाः। (निरु०३.१७) अत्राप्युत्तमानामङ्गानां मध्येऽन्तर्यामी प्राणाख्योऽर्थो गृह्यते॥६॥ अन्वयः-हे अङ्गिरोऽअङ्गाग्ने! त्वं यस्मात् दाशुषे भद्रं करिष्यसि करोषि, तस्मात्तवेत्तवैवेदं सत्यं व्रतमस

ऋग्वेद 1.1.5

पुनस्तौ कीदृशौ स्त इत्युपदिश्यते। फिर भी परमेश्वर और भौतिक अग्नि किस प्रकार के हैं, सो अगले मन्त्र में उपदेश किया है अग्निहोता कविक्रतुः सत्यश्चित्रश्रवस्तमः देवो दे॒वेभरा गमत्॥५॥१॥ अग्निः। होताकविऽक्रतुः। सत्यः। चित्रश्रवःऽतमःदे॒वः। देवेभिःआ। गमत्॥५॥ पदार्थ:-(अग्निः) परमेश्वरो भौतिको वा (होता) दाता ग्रहीता द्योतको वा (कविक्रतुः) कवि: सर्वज्ञः क्रान्तदर्शनो वा। करोति यो येन वा स क्रतुः, कविश्चासौ क्रतुश्च सः। कविः क्रान्तदर्शनो भवति कवतेर्वा(निरु०१२.१३) य: सर्वविद्यायुक्तं वेदशास्त्रं कवते उपदिशति स कविरीश्वरः। क्रान्तं दर्शनं यस्मात्स सर्वज्ञो भौतिको वा क्रान्तदर्शनः। कृञः कतुः (उणा० १.७६) अनेन कृजो हेतुकर्तरि कर्तरि वा कतु प्रत्ययः(सत्यः) सन्तीति सन्तः, सद्भयो हितः तत्र साधुर्वा। सत्यं कस्मात्सत्सु तायते सत्प्रभवं भवतीति वा। (निरु०३.१३) (चित्रश्रवस्तमः) चित्रमद्भुतं श्रवः श्रवणं यस्य सोऽतिशयितः (देवः) स्वप्रकाश: प्रकाशकरो वा (देवेभिः) विद्वद्भिर्दिव्यगुणैः सह वा (आ) समन्तात् (गमत्) गच्छतु प्राप्तो भवति वा। लुप्रयोगोऽडभावश्च।।५।। अन्वयः-यः सत्यश्चित्रश्रवस्तमः कविक्रतुः होता देवोऽग्नि