ऋग्वेद 1.3.7

 ओमा॑सश्चर्षणीधृतो विश्वे देवास आ गत।

दाश्वांसौ दाशुषः सुतम्॥७॥

ओमासः। चर्षणिऽधृतः। विश्वे। देवासः। आ| गत। दाश्वांसः। दाशुषः। सुतम्॥७॥

पदार्थ:-(ओमासः) रक्षका ज्ञानिनो विद्याकामा उपदेशप्रीतयो विज्ञानतृप्तयो याथातथ्यावगमाः शुभगुणप्रवेशाः सर्वविद्याश्राविणः परमेश्वरप्राप्तौ व्यवहारे च पुरुषार्थिनः शुभविद्यागुणयाचिन: क्रियावन्तः सर्वोपकारमिच्छुका विज्ञाने प्रशस्ता आप्ताः सर्वशुभगुणालिङ्गिनो दुष्टगुणहिंसकाः शुभगुणदातार: सौभाग्यवन्तो ज्ञानवृद्धाः। अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीत्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु। अविसिविसिशुषिभ्यः कित् इत्यनेनौणादिकेन सूत्रेणावधातोरोम् शब्द: सिध्यति। ओमास इति पदनामसु पठितम्। (निघं०४.३) (चर्षणीधृतः) सत्योपदेशेन मनुष्येभ्यः सुखस्य धर्तारः। चर्षणय इति मनुष्यनामसु पठितम्। (निघं०२.३) (विश्वेदेवासः) देवा दीव्यन्ति विश्वे सर्वे च ते देवा विद्वांसश्च ते। विश्वेदेवा इति पदनामसु पठितम्। (निघं०५.६) (आ गत) समन्तात् गमयत। इत्यत्र गमधातोर्ज्ञानार्थः प्रयोगः (दाश्वांसः) सर्वस्याभयदातारः। दाश्वान् साह्वान् मीढ्वांश्च। (अष्टा०६.१.१२) अनेनायं दानार्थाद्दाशेः क्वसुप्रत्ययान्तो निपातितः। (दाशुषः) दातुः (सुतम्) यत्सोमादिकं ग्रहीतुं विज्ञानं प्रकाशयितुं चाभीष्टं वस्तु__

निरुक्तकार एनं मन्त्रमेवं समाचष्टे-अवितारो वाऽवनीया वा मनुष्यधृतः सर्वे च देवा इहागच्छत, दत्तवन्तो दत्तवतः सुतमिति। तदेतदेकमेव वैश्वदेवं गायत्रं तृचं दशतयीषु विद्यते। यत्तु किंचिद्बहुदैवतं तद्वैश्वदेवानां स्थाने युज्यते, यदेव विश्वलिङ्गमिति शाकपूणिरनत्यन्तगतस्त्वेष उद्देशो भवति बचरेक इति दश द्विपदा अलिङ्गाभूतांश: काश्यप आश्विनमेकलिङ्गमभितष्टीयं सूक्तमेकलिङ्गम्।(निरु०१२.४०) अत्र रक्षाकर्तारः सर्वे रक्षणीयाश्च सर्वे विद्वांसः सन्ति, ते च सर्वेभ्यो विद्याविज्ञानं दत्तवन्तो भवन्त्विति॥७॥ ___

अन्वयः-हे ओमासश्चर्षणीधृतो दाश्वांसो विश्वेदेवासः सर्वे विद्वांसो दाशुषः सुतमागत समन्तादागच्छत॥७॥

भावार्थ:-ईश्वरो विदुषः प्रत्याज्ञां ददाति-यूयमेकत्र विद्यालये चेतस्ततो वा भ्रमणं कुर्वन्तः सन्तोऽज्ञानिनो जनान् विदुषः सम्पादयत। यतः सर्वे मनुष्या विद्याधर्मसुशिक्षासत्क्रियावन्तो भूत्वा सदैव सुखिनः स्युरिति॥७॥ __

पदार्थ:-(ओमासः) जो अपने गुणों से संसार के जीवों की रक्षा करने, ज्ञान से परिपूर्ण, विद्या और उपदेश में प्रीति रखने, विज्ञान से तृप्त, यथार्थ निश्चययुक्त, शुभगुणों को देने और सब विद्याओं को सुनाने, परमेश्वर के जानने के लिये पुरुषार्थी, श्रेष्ठ विद्या के गुणों की इच्छा से दुष्ट गुणों के नाश करने, अत्यन्त ज्ञानवान् (चर्षणीधृतः) सत्य उपदेश से मनुष्यों के सुख के धारण करने और कराने (दाश्वांसः) अपने शुभ गुणों से सबको निर्भय करनेहारे (विश्वदेवासः) सब विद्वान् लोग हैं, वे (दाशुषः) सज्जन मनुष्यों के सामने (सुतम्) सोम आदि पदार्थ और विज्ञान का प्रकाश (आ गत) नित्य करते रहें॥७॥

भावार्थ:-ईश्वर विद्वानों को आज्ञा देता है कि-तुम लोग एक जगह पाठशाला में अथवा इधरउधर देशदेशान्तरों में भ्रमते हुए अज्ञानी पुरुषों को विद्यारूपी ज्ञान देके विद्वान् किया करो, कि जिससे सब मनुष्य लोग विद्या धर्म और श्रेष्ठ शिक्षायुक्त होके अच्छे-अच्छे कर्मों से युक्त होकर सदा सुखी रहें॥७॥

पुनस्तानेवोपदिशति।

ईश्वर ने फिर भी उन्हीं विद्वानों का प्रकाश अगले मन्त्र में किया है