ऋग्वेद 1.4.1

 अथास्य दशर्चस्य चतुर्थसूक्तस्य मधुच्छन्दा ऋषिः। इन्द्रो देवता। १,२, ४-९ गायत्री; ३

विराङ्गायत्री; १० निवृद्गायत्री च छन्दः। षड्जः स्वरः॥

___ तत्र प्रथममन्त्रेणोक्तविद्याप्रपूर्त्यर्थमिदमुपदिश्यते

अब चौथे सूक्त का आरम्भ करते हैं। ईश्वर ने इस सूक्त के पहिले मन्त्र में उक्त-विद्या के पूर्ण करनेवाले साधन का प्रकाश किया है

सुरूपकृत्लुमूतये सुदु_मिव गोदुहे।

जुहूमस द्यविद्यवि॥१॥

सुरूपऽकृत्लुम्। ऊतये। सुदुर्घाम्ऽइव। गोदुहै। जुहूमसि। द्यविऽद्यवि॥ १॥

पदार्थ:-(सुरूपकृत्नुम्) य इन्द्रः सूर्य्यः सर्वान्पदार्थान् स्वप्रकाशेन स्वरूपान् करोतीति तम्। कृहनिभ्यां कृत्नुः। (उणा०३.२८) अनेन क्तनुप्रत्ययः। उपपदसमासः। इन्द्रो दिव इन्द्र ईशे पृथिव्याः। ऋ० १०.८९.१०) नेन्द्रादृते पवते धाम कि चुन॥ (ऋ०९.६९.६, निरु०७.२) (निरु०७.२) अहमिन्द्रः परमेश्वरः सूर्यं पृथिवीं च ईशे रचितवानस्मीति तेनोपदिश्यते। तस्मादिन्द्राद्विना किञ्चिदपि धाम न पवते न पवित्रं भवति। (ऊतये) विद्याप्राप्तये। अवधातोः प्रयोगः। ऊतियूति०। (अष्टा०३.३.९७) अस्मिन्सूत्रे निपातितः। (सुदुघामिव) यथा कश्चिन्मनुष्यो बहुदुग्धदात्र्या गोः पयो दुग्ध्वा स्वाभीष्टं प्रपूरयति तथा। दुहः कप घश्च। (अष्टा०३.२.७०) इति सुपूर्वाद् दुहधातोः कप्प्रत्ययो घादेशश्च। (गोदुहे) गोर्दोग्धे दुग्धादिकमिच्छवे मनुष्याय। सत्सूद्विष०। (अष्टा०३.२.६१) इति सूत्रेण क्विप्प्रत्ययः। (जुहूमसि) स्तुमः । बहुलं छन्दसि। (अष्टा० २.४.७६) अनेन शप: स्थाने श्लुः। अभ्यस्तस्य च। (अष्टा०६.१.३३) अनेन सम्प्रसारणम्। सम्प्रसारणाच्च। (अष्टा०६.१.१०८) अनेन पूर्वरूपम्। हलः। (अष्टा०६.४.२) इति दीर्घः। इदन्तो मसि। (अष्टा०७.१.४६) अनेन मसेरिकारागमः। (द्यविद्यवि) दिने दिने। (अष्टा०८.१.४) अनेन द्वित्वम्। द्यविद्यवीत्यह मसु पठितम्। (निघ०१.९)॥१॥ ___

अन्वयः-गोदुहे दुग्धादिकमिच्छवे मनुष्याय दोहनसुलभां गामिव वयं द्यविद्यवि सविद्यानां स्वेषामूतये विद्याप्राप्तये सुरूपकृत्नुमिन्द्रं परमेश्वरं जुहूमसि स्तुमः॥१॥

भावार्थ:-अत्रोपमालङ्कारः। यथा मनुष्या गोर्दुग्धं प्राप्य स्वप्रयोजनानि साधयन्ति विद्वांसः परमेश्वरोपासनया श्रेष्ठविद्यादिगुणान् प्राप्य स्वकार्याणि प्रपूरयन्तीति।१।

पदार्थ:-जैसे दूध की इच्छा करनेवाला मनुष्य दूध दोहने के लिये सुलभ दुहानेवाली दोहके अपनी कामनाओं को पूर्ण कर लेता है, वैसे हम लोग (द्यविद्यवि) सब दिन अपने मनुष्यों को (ऊतये) विद्या की प्राप्ति के लिये (सुरूपकृत्नुम्) परमेश्वर जो कि अपने पदार्थों को उत्तम रूपयुक्त करनेवाला है, उसकी (जुहूमसि) स्तुति करते हैं

भावार्थ:-इस मन्त्र में उपमालङ्कार है। जैसे मनुष्य गाय के दूध को प्राप्त होके अपने प्रयोजन को सिद्ध करते हैं, वैसे ही विद्वान् धार्मिक पुरुष भी परमेश्वर की उपासना से श्रेष्ठ विद्या आदि गुणों को प्राप्त होकर अपने-अपने कार्यों को पूर्ण करते हैं।।१।

अथेन्द्रशब्देन सूर्य्य उपदिश्यते।

अगले मन्त्र में ईश्वर ने इन्द्र शब्द से सूर्य के गुणों का वर्णन किया है