ऋग्वेद 1.1.7

 यदङ्ग दाशुषे त्वमग्नै भद्रं करिष्यसि।

तवेत्तत्सत्यमङ्गिरः॥६॥

यत्। अङ्गा दाशुषे। त्वम्। अग्ने। भद्रम्। करिष्यसि। तवा इत्। तत्। सत्यम्। अङ्गिरः॥६॥ पदार्थ:-(यत्) यस्मात् (अङ्ग) सर्वमित्र (दाशुषे) सर्वस्वं दत्तवते (त्वम्) मङ्गलमयः (अग्ने) परमेश्वर (भद्रम्) कल्याणं सर्वैः शिष्टेर्विद्वद्भिः सेवनीयम्। भद्रं भगेन व्याख्यातं भजनीयं भूतानामभिद्रवयतीति वा भाजनवद्वा। (निरु०४.१०) (करिष्यसि) करोषि। अत्र वा छन्दसि सर्वे विधयो भवन्ति इति लडथै लुट। (तव इत्) एव (तत्) तस्मात् (सत्यम्) सत्सु पदार्थेषु सुखस्य विस्तारकं सत्प्रभवं सद्भिर्गुणैरुत्पन्नम् (अङ्गिरः) पृथिव्यादीनां ब्रह्माण्डस्याङ्गानां प्राणरूपेण शरीरावयवानां चान्तर्यामिरूपेण रसरूपोऽङ्गिरास्तत्सम्बुद्धौ। प्राणो वा अङ्गिराः। (श० ब्रा०६.३.७.३) देहेऽङ्गारेष्वगिरा अङ्गारा अङ्कमा अञ्चनाः। (निरु०३.१७) अत्राप्युत्तमानामङ्गानां मध्येऽन्तर्यामी प्राणाख्योऽर्थो गृह्यते॥६॥

अन्वयः-हे अङ्गिरोऽअङ्गाग्ने! त्वं यस्मात् दाशुषे भद्रं करिष्यसि करोषि, तस्मात्तवेत्तवैवेदं सत्यं व्रतमस्ति॥६॥ ___

भावार्थ:-यो न्यायकारी सर्वस्य सुहृत्सन् दयालुः कल्याणकर्ता सर्वस्य सुखमिच्छु: परमेश्वरोऽस्ति, तस्योपासनेन जीव ऐहिक पारमार्थिकं सुखं प्राप्नोति, नेतरस्य। कुतः, परमेश्वरस्यैवैतच्छीलवत्त्वेन समर्थत्वात्। योऽभिव्याप्याङ्गान्यङ्गीव सर्वं विश्वं धारयति, येनैवेदं जगद्रक्षितं यथावदवस्थापितं च सोऽङ्गिरा भवतीति

अत्राङ्गिरःशब्दार्थो विलसनाख्येन भ्रान्त्यान्यथैव व्याख्यात इति बोध्यम्॥६॥

पदार्थ:-हे (अङ्गिरः) ब्रह्माण्ड के अङ्ग पृथिवी आदि पदार्थों को प्राणरूप और शरीर के अङ्गों को अन्तर्यामीरूप से रसरूप होकर रक्षा करनेवाले होने से यहां 'अङ्गिरः' (प्राण) शब्द से ईश्वर लिया है(अङ्ग) हे सब के मित्र (अग्ने) परमेश्वर ! (यत्) जिस हेतु से आप (दाशुषे) निर्लोभता से उत्तमउत्तम पदार्थों के दान करनेवाले मनुष्य के लिये (भद्रम्) कल्याण, जो कि शिष्ट विद्वानों के योग्य है, उसको (करिष्यसि) करते हैं, सो यह (तवेत्) आप ही का (सत्यम्) सत्य (व्रतम्) शील है।६।__

_ भावार्थ:-जो न्याय, दया, कल्याण और सब का मित्रभाव करनेवाला परमेश्वर है, उसी की उपासना करके जीव इस लोक और मोक्ष के सुख को प्राप्त होता है, क्योंकि इस प्रकार सुख देने का स्वभाव और सामर्थ्य केवल परमेश्वर का है, दूसरे का नहीं। जैसे शरीरधारी अपने शरीर को धारण करता है, वैसे ही परमेश्वर सब संसार को धारण करता है, और इसी से यह संसार की यथावत् रक्षा और स्थिति होती है॥६॥ तद् ब्रह्म कथमुपास्यं प्राप्तव्यमित्युपदिश्यते। उक्त परमेश्वर कैसे उपासना करके प्राप्त होने के योग्य है, इसका विधान अगले मन्त्र में किया है।