ऋग्वेद 1.3.4

इन्द्राया॑हि चित्रभानो सुता डुमे त्वा॒यवः

अण्वीभिस्तना पूतासः॥४॥

इन्द्रआ। याहि। चित्रभानो। सुताः। इमे। त्वा॒यवः।अण्वीभिःतना। पूतासः॥४॥

पदार्थ:-(इन्द्र) परमेश्वर सूर्यो वा। अत्राह यास्काचार्य:-इन्द्र इरां दृणातीति वेरां ददातीति वेरां दधातीति वेरां दारयत इति वेरां धारयत इति वेन्दवे द्रवतीति वेन्दौ रमत इति वेधे भूतानीति वा। तद्यदेनं प्राणैः समै स्तदिन्द्रस्येन्द्रत्वमिति विज्ञायते। इदं करणादित्याग्रायण इदं दर्शनादित्यौपमन्यव इन्दतेर्वेश्वर्यकर्मण इदञ्छत्रूणां दारयिता वा द्रावयिता वा दारयिता च यज्वनाम्। (निरु०१०.८) इन्द्राय साम गायत नेन्द्रादृते पवते धाम किंचनेन्द्रस्य नु वीर्याणि प्रवोचमिन्द्रे कामा अयंसत। (निरु०७.२)

इराशब्देनान्नं पृथिव्यादिकमुच्यते। तद्दारणात्तद्दानात्तद्धारणात्। चन्द्रलोकस्य प्रकाशाय द्रवणात्तत्र रमणादित्यर्थेनेन्द्रशब्दात् सूर्यलोको गृह्यते। तथा सर्वेषां भूतानां प्रकाशनात् प्राणैर्जीवस्योपकरणादस्य सर्वस्य जगत उत्पादनाद् दर्शनहेतोश्च सर्वेश्वर्ययोगाद् दुष्टानां शत्रूणां विनाशकाद् दूरे गमकत्वाद् यज्वनां रक्षकत्वाच्चेत्यर्थादिन्द्रशब्देनेश्वरस्य ग्रहणम्। एवं परमेश्वराद्विना किञ्चिदपि वस्तु न पवते। तथा सूर्याकर्षणेन विना कश्चिदपि लोको नैव चलति तिष्ठति वा। ___

प्र तुविद्युम्नस्य॒ स्थविरस्य॒ घृष्वैर्दिवो ररप्शे महिमा पृथिव्याः। नास्य॒ शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य॒ सह्योः॥ (ऋ०६.१८.१२) यस्यायं महाप्रकाशस्य वृद्धस्य सर्वपदार्थानां जगदुत्पत्तो सङ्घर्षकर्तुः सहनशीलस्य बहुपदार्थनिर्मातुरिन्द्रस्य परमैश्वर्य्यवतः परमेश्वरस्य सूर्यलोकस्य सृष्टेमध्ये महिमा प्रकाशते तस्यास्य न कश्चिच्छत्रुः, न किञ्चित्परिमाणसाधनमर्थादुपमानं नैकत्राधिकरणं चास्ति, इत्यनेनोभावर्थो गृह्यते। _

__ (आयाहि) समन्तात्प्राप्तो भव भवति वा (चित्रभानो) चित्रा आश्चर्यभूता भानवो दीप्तयो यस्य सः (सुताः) उत्पन्ना मूर्तिमन्तः पदार्थाः (इमे) विद्यमानाः (त्वायवः) त्वां तं वोपेताः। छन्दसीणः।  (उणा०१.२) इत्यौणादिके उणप्रत्यये कृते आयुरिति सिध्यति। त्वदित्यत्र छान्दसो वर्णलोपो वेत्यनेन तकारलोपः। (अण्वीभिः) कारणैः, प्रकाशावयवैः किरणैरमुलिभिर्वा। वोतो गुणवचनात्। (अष्टा० ४.१.४४) अनेन डीषि प्राप्ते व्यत्ययेन ङीन्। (तना) विस्तृतधनप्रदाः। तनेति धननामसु पठितम्। (निरु०२.१०) अत्र सुपां सुलुगित्यनेनाकारादेशः । (पूतासः) शुद्धाः शोधिताश्च॥४॥

अन्वयः-हे चित्रभानो इन्द्र परमेश्वर! त्वमस्मानायाहि कृपया प्राप्नुहि, येन भवता इमे अण्वीभिस्तना पुष्कलद्रव्यदाः पूतासस्त्वायवः सुता उत्पादिता पदार्था वर्तन्ते तैर्गृहीतोपकारानस्मान्सम्पादय। तथा योऽयमिन्द्रः स्वगुणैः सर्वान् पदार्थानायाति प्राप्नोति तेनेमे अण्वीभिः किरणकारणावयवैस्तना विस्तृतप्राप्तिहेतवस्त्वायवस्तन्निमित्तप्राप्तायुषः पूतासः सुताः संसारस्थाः पदार्थाः प्रकाशयुक्ताः क्रियन्ते तैरिति पूर्ववत्।।४॥ __

_ भावार्थः-अत्र श्लेषालङ्कारेणेश्वरस्य सूर्य्यस्य वा यानि कर्माणि प्रकाश्यन्ते तानि परमार्थव्यवहारसिद्धये मनुष्यैः समुपयोक्तव्यानि सन्तीति।।४।

पदार्थ:-(चित्रभानो) हे आश्चर्यप्रकाशयुक्त (इन्द्र) परमेश्वर! आप हमको कृपा करके प्राप्त हूजिये। कैसे आप हैं कि जिन्होंने (अण्वीभिः) कारणों के भागों से (तना) सब संसार में विस्तृत (पूतासः) पवित्र और (त्वायवः) आपके उत्पन्न किये हुए व्यवहारों से युक्त (सुताः) उत्पन्न हुए मूर्तिमान् पदार्थ उत्पन्न किये हैं, हम लोग जिनसे उपकार लेनेवाले होते हैं, इससे हम लोग आप ही के शरणागत हैं

दूसरा अर्थ-जो सूर्य अपने गुणों से सब पदार्थों को प्राप्त होता है, वह (अण्वीभिः) अपनी किरणों से (तना) संसार में विस्तृत (त्वायवः) उसके निमित्त से जीनेवाले (पूतास:) पवित्र (सुताः) संसार के पदार्थ हैं, वही इन उनको प्रकाशयुक्त करता है॥४॥

भावार्थ:-यहां श्लेषालङ्कार समझना। जो-जो इस मन्त्र में परमेश्वर और सूर्य के गुण और कर्म प्रकाशित किये गये हैं, इनसे परमार्थ और व्यवहार की सिद्धि के लिये अच्छी प्रकार उपयोग लेना सब मनुष्यों को योग्य है॥४॥ अथेन्द्रशब्देनेश्वर उपदिश्यते। ईश्वर ने अगले मन्त्र में अपना  प्रकाश किया है