ऋग्वेद 1.34.3

 


समाने अहुन् त्रिविद्यगोहना त्रिद्य य॒ज्ञं मधुना मिमिक्षतम्।

त्रिर्वाजवतीरिषो अश्विना युवं दोषा अ॒स्मभ्यमुषसंश्च पिन्वतम्॥३॥

समानेअहन्। त्रिःअवद्यऽगोहना। त्रिः। अद्या य॒ज्ञम्। मधुना। मिमिक्षतम्। त्रिः। वाजऽवतीः। इषःअश्विना। युवम्। दोषाः। अस्मभ्यम्। उषसः। च। पिन्वतम्॥३॥

पदार्थ:-(समाने) एकस्मिन् (अहन्) अहनि दिने (त्रिः) त्रिवारम् (अवद्यगोहना) अवद्यानि गाणि निन्दितानि दुःखानि गृहत आच्छादयतो दूरीकुरुतस्तौ। अवद्यपण्य० (अष्टा०३.१.१०१) इत्ययं निन्दार्थे निपातःण्यन्ताद् गुहू संवरण इत्यस्माद्धातोः ण्यासश्रस्थो युच्। (अष्टा० ३.३.१०७) इति युच्। ऊदुपधाया गोहः। (अष्टा०६.४.८९) इत्यूदादेशे प्राप्ते। वा च्छन्दसि सर्वे विधयो भवन्ति इत्यस्य निषेधः । सुपां सुलुग्० इत्याकारादेशश्च। (त्रिः) त्रिवारम् (अद्य) अस्मिन्नहनि (यज्ञम्) ग्राह्यशिल्पादिसिद्धिकरम् (मधुना) जलेन। मध्वित्युदकनामसु पठितम्। (निघ०१.१२) (मिमिक्षतम्) मेढुमिच्छतम् (त्रिः) त्रिवारम् (वाजवती:) प्रशस्ता वाजा वेगादयो गुणा विद्यन्ते यासु नौकादिषु ताः। अत्र प्रशंसार्थे मतुप्। (इषः) या इष्यन्ते ता इष्टसुखसाधिकाः (अश्विना) वह्निजलवद्यानसिद्धिं सम्पाद्य प्रेरकचालकावध्व!। अश्विनावध्व!। (श० ब्रा० १.१.२.१७) (युवम्) युवाम्। प्रथमायाश्च द्विवचने भाषायाम्। (अष्टा०७.२.८८) इत्याकारादेशनिषेधः । (दोषाः) रात्रिषु। अत्र सुपां सुलुग्० इति सुब्ब्यत्ययः । दोषेति रात्रिनामसु पठितम्। (निघं०१.७) (अस्मभ्यम्) शिल्पक्रियाकारिभ्यः (उषस:) प्रापितप्रकाशेषु दिवसेषु। अत्रापि सुब्ब्यत्ययः उष इति पदनामसु पठितम्। (निघं०५.५) (च) समुच्चये (पिन्वतम्) प्रीत्या सेवेथाम्॥३॥

अन्वयः-हे अश्विनावद्यगोहनावा!! युवं युवां समानेऽहनि मधुना यज्ञं त्रिर्मिमिक्षतमद्यास्मभ्यं दोषा उषसः त्रिर्यानानि पिन्वतं वाजवतीरिषश्च त्रिः पिन्वतम्॥३॥ भावार्थ:-शिल्पविद्याविद्विद्वांसो यन्त्रैर्यानं चालयिताश्च प्रतिदिनं शिल्पविद्यया यानानि निष्पाद्य त्रिधा शरीरात्ममनः सुखाय धनाद्यनेकोत्तमान् पदार्थानर्जयित्वा सर्वान् प्राणिनः सुखयन्तु। येनाहोरात्रे सर्वे पुरुषार्थेनेमां विद्यामुन्नीयालस्यं त्यक्त्वोत्साहेन तद्रक्षणे नित्यं प्रयतेरन्निति॥३॥

पदार्थ:-हे (अश्विना) अग्नि जल के समान यानों को सिद्ध करके प्रेरणा करने और चलाने तथा (अवद्यगोहना) निन्दित दुष्ट कर्मों को दूर करने वाले विद्वान् मनुष्यो! (युवम्) तुम दोनों (समाने) एक (अहन्) दिन में (मधुना) जल से (यज्ञम्) ग्रहण करने योग्य शिल्पादि विद्या सिद्धि करने वाले यज्ञ को (त्रिः) तीन वार (मिमिक्षितम्) सींचने की इच्छा करो और (अद्य) आज (अस्मभ्यम्) शिल्पक्रियाओं को सिद्ध करने कराने वाले हम लोगों के लिये (दोषाः) रात्रियों और (उषस:) प्रकाश को प्राप्त हुए दिनों में (त्रिः) तीन वार यानों का (पिन्वतम्) सेवन करो और (वाजवती:) उत्तम-उत्तम सुखदायक (इषः) इच्छा सिद्धि करने वाले नौकादि यानों को (त्रिः) तीन वार (पिन्वतम्) प्रीति से सेवन करो।।३॥

भावार्थ:-शिल्पविद्या को जानने और कलायन्त्रों से यान को चलाने वाले प्रतिदिन शिल्पविद्या से यानों को सिद्ध कर तीन प्रकार अर्थात् शारीरिक, आत्मिक और मानसिक सुख के लिये धन आदि अनेक उत्तम-उत्तम पदार्थों को इकट्ठा कर सब प्राणियों को सुखयुक्त करें, जिससे दिन-रात में सब लोग अपने पुरुषार्थ से इस विद्या की उन्नति कर और आलस्य को छोड़ के उत्साह से उसकी रक्षा में निरन्तर प्रयत्न करें॥३॥

पुनस्ताभ्यां किं कार्य कर्त्तव्यमित्युपदिश्यते॥

फिर उनसे क्या कार्य करना चाहिये, इस विषय का उपदेश अगले मन्त्र में किया है।