ऋग्वेद 1.32.5

 अर्हन्वृत्रं वृत्रतरं व्यसमिन्द्रो वज्रेण महता वधेन।

स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक् पृथिव्याः॥५॥३६॥

अर्हन्। वृत्रम्। वृत्रऽतरम्विऽअसम्। इन्द्रः। वत्रैणा मुहता। वधेनस्कासिऽइव। कुलिशेनविवृक्णा। अहिःशयतेउपऽपृक्। पृथिव्याः॥५॥

पदार्थ:-(अहन्) हतवान् (वृत्रम्) मेघम्। वृत्रो मेघ इति नैरुक्ताः (निरु०२.१६) वृत्रं जघ्निवानपववार तद्वत्रो वृणोतेर्वा वर्त्ततेर्वा वधतेर्वा। यदवृणोत् तद्वत्रस्य वृत्रत्वमिति विज्ञायते, यदवर्त्तत तद्वत्रस्य वृत्रत्वमिति विज्ञायते, यदवर्द्धत तद्वत्रस्य वृत्रत्वमिति विज्ञायते। (निरु०२.१७) वृत्रो ह वा इदछ सर्वं वृत्वा शिष्ये। यदिदमन्तरेण द्यावापृथिवी स यदिदथं सर्व वृत्वा शिष्ये तस्माद् वृत्रो नाम।४॥ तमिन्द्रो जघान सहतः पूतिः सर्वत एवापोऽभि सुस्राव सर्वत इव ह्यय, समुद्रस्तस्मादुहैका आपो बीभत्सां चक्रिरे ता उपय्युपर्य्यतिपुणविरे॥ (श० ब्रा० १.१.३.४-५) एतैर्गुणैर्युक्तत्वान् मेघस्य वृत्र इति संज्ञा। (वृत्रतरम्) अतिशयेनावरकम् (व्यंसम्) विगता अंसाः स्कन्धवदवयवा यस्य तम् (इन्द्रः) विद्युत् सूर्यलोकाख्य इव सेनाधिपतिः (वज्रेण) छेदकेनोष्मकिरणसमूहेन (महता) विस्तृतेन (वधेन) हन्यते येन तेन (स्कन्धांसीव) शरीरावयवाबाहुमूलादीनीव। अत्र स्कन्देश्च स्वाङ्गेः। (उणा०४.२०७) अनेनासुन् प्रत्ययो धकारादेशश्च। (कुलिशेन) अतिशितधारेण खड्गेन। अत्र अन्येषामपि दृश्यत इति दीर्घः। (विवृक्णा) विविधतयाछिन्नानिअत्र ओख्रश्चू छेदन इत्यस्मात्कर्मणि निष्ठा। ओदितश्च। (अष्टा०८.२) इति नत्वम्। निष्ठादेशः षत्वस्वरप्रत्ययविधीड्विधिषु सिद्धो वक्तव्यः। (अष्टा० वा०६.१.१६, ८.२.३) इति वार्तिकेन झलि षत्वे कर्त्तव्ये झल्परत्वाभावात् षत्वं न भवति। चो कुरिति कुत्वं शेश्छन्दसि इति शेर्लोपः। (अहिः) मेघः (शयते) शेते। अत्र बहुलं छन्दसि इति शपो लुङ् न। (उपपृक्) उपसामीप्यं पृङ्क्ते स्पृशति यः सः (पृथिव्याः ) भूमेः॥५॥ __

अन्वयः-हे सेनापतेऽतिरथस्त्वं यथेन्द्रो महता वज्रेण कुलिशेन विवृक्णा विच्छिन्नानि स्कन्धांसीव व्यंसं यथा स्यात्तथा वृत्रतरं वृत्रमहन् वधेन हतोऽहिर्मेघः पृथिव्या उपपृक् सन् शयते शेत इव सर्वारीन् हन्याः ॥५॥

भावार्थ:-अत्र वाचकलुप्तोपमोपमालङ्कारोयथा कश्चिन्महता शितेन शस्त्रेण शत्रोः शरीरावयवान् छित्वा भूमौ निपातयति, स हतः पृथिव्यां शेते तथैवायं सूर्यो विद्युच्च मेघावयवान् छित्वा भूमौ निपातयति, स भूमौ निहतः शयान इव भासते।।५।

पदार्थ:-हे महावीर सेनापते! आप जैसे (इन्द्रः) सूर्य वा बिजुली (महता) अति विस्तारयुक्त (कुलिशेन) अत्यन्त धारवाली तलवाररूप (वज्रेण) पदार्थों के छिन्न-भिन्न करने वाले अति तापयुक्त किरणसमूह से (विवृक्णा) कटे हुए (स्कन्धांसीव) कंधों के समान (व्यंसम्) छिन्न-भिन्न अङ्ग जैसे हों वैसे (वृत्रतरम्) अत्यन्त सघन (वृत्रम्) मेघ को (अहन्) मारता है अर्थात् छिन्न-भिन्न कर पृथिवी पर बरसाता है और वह (वधेन) सूर्य के गुणों से मृतकवत् होकर (अहिः) मेघ (पृथिव्याः) पृथिवी के (उपपृक्) ऊपर (शयते) सोता है, वैसे ही वैरियों का हनन कीजिये।।५।

भावार्थ:-इस मन्त्र में वाचकलुप्तोपमा और उपमालङ्कार हैं। जैसे कोई अतितीक्ष्ण तलवार आदि शस्त्रों से शत्रुओं के शरीर को छेदन कर भूमि में गिरा देता है और वह मरा हुआ शत्रु पृथिवी पर निरन्तर सो जाता है, वैसे ही सूर्य और बिजुली मेघ के अङ्गों को छेदन कर भूमि में गिरा देती और वह भूमि में गिरा हुआ होने के समान दीख पड़ता है॥५॥ __

पुनस्तौ कथं युध्येते इत्युपदिश्यते॥

फिर वे कैसे युद्ध करते हैं, इस विषय का उपदेश अगले मन्त्र में किया है।