ऋग्वेद 1.23.5

 ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती। ता मत्रावरुणा हुवे॥५॥८॥

ऋतेन। यौ। ऋतऽवृधौ। ऋतस्य। ज्योतिषः। पती इति। ता। मित्रावरुणा। हुवे॥५॥

पदार्थ:-(ऋतेन) सत्यरूपेण ब्रह्मणा निर्मितो सन्तौ (यौ) (ऋतावृधौ) ऋतं सत्यं कारणं जलं वा वर्द्धयतस्तौ। अत्रान्तर्गतो ण्यर्थःअन्येषामपि दृश्यते इति दीर्घश्च। (ऋतस्य) यथार्थस्वरूपस्य (ज्योतिषः) प्रकाशस्य (पती) पालयितारौ। अत्र षष्ठयाः पतिपुत्रपृष्ठपार० (अष्टा०८.३.५३) अनेन विसर्जनीयस्य सकारादेशः। (ता) तौ (मित्रावरुणा) मित्रश्च वरुणश्च द्वौ सूर्यवाय। अत्र देवताद्वन्द्वे च। (अष्टा०६.३.२६) अनेन पूर्वपदस्यानडादेशः। अत्रोभयत्र सुपां सुलुग्० इत्याकारादेशः। (हुवे) आददे। अत्र व्यत्ययेनात्मनेपदं बहुलं छन्दसि इति शपो लुक् च॥५॥

अन्वयः-अहं यावृतेन जगदीश्वरेणोत्पाद्य धारितावृतावृधावृतस्य ज्योतिषस्पती मित्रावरुणौ स्तस्तो हुवे।।५॥

भावार्थ:-नैव सूर्यवायुभ्यां विना जलज्योतिषोरुत्पत्तेः सम्भवोऽस्ति नैव चेश्वरोत्पादनेन विना सूर्य्यवाय्वोरुत्पत्तिर्भवितुं शक्या, न चैताभ्यां विना मनुष्याणां व्यवहारसिद्धिर्भवितुमर्हतीति॥५॥

__इति प्रथमाष्टके द्वितीयोऽध्यायेऽष्टमो वर्गः॥८॥

पदार्थ:-मैं (यौ) जो (ऋतेन) परमेश्वर ने उत्पन्न करके धारण किये हुए (ऋतावृधौ) जल को बढ़ाने और (ऋतस्य) यथार्थ स्वरूप (ज्योतिषः) प्रकाश के (पती) पालन करने वाले (मित्रावरुणौ) सूर्य और वायु हैं, उनको (हुवे) ग्रहण करता हूं।।५।

भावार्थ:-न सूर्य और वायु के विना जल और ज्योति अर्थात् प्रकाश की योग्यता, न ईश्वर के उत्पादन किये विना सूर्य और वायु की उत्पत्ति का सम्भव और न इनके विना मनुष्यों के व्यवहारों की सिद्धि हो सकती है।॥५॥

इति प्रथमाष्टके द्वितीयाध्यायेऽष्टमो वर्गः समाप्तः॥६॥

पुनस्तौ कि कुरुत इत्युपदिश्यते।

फिर वे क्या करते हैं, इस विषय का उपदेश अगले मन्त्र में किया है