ऋग्वेद 1.22.9

 अग्ने पत्नीरहा वह देवानामुशतीरुप

त्वष्टार सोमपीतये॥९॥

अग्ने। पत्नीः। दृह। आ। वह। दे॒वाना॑म्। उश॒तीःउप। त्वष्टारम्। सोम॑ऽपीतये॥९॥

पदार्थ:-(अग्ने) अग्निीतिकः (पत्नी:) पत्युतॊ यज्ञसंयोगे। (अष्टा० ४.१.३३) अनेन डीप प्रत्ययो नकारादेशश्च। इयं वै पृथिव्यदितिः सेयं देवानां पत्नी। (श०ब्रा०५.२.५.४) देवानां पत्न्य उशत्योऽवन्तु नः। प्रावन्तु नस्तुजयेऽपत्यजननाय चान्नसंसननाय च। याः पार्थिवासो या अपामपि व्रते कर्मणि ता नो देव्यः सुहवाः शर्म यच्छन्तु शरणम्। अपि च ग्ना: व्यन्तु देवपत्न्य इन्द्राणीन्द्रस्य पत्न्यग्नाय्यग्नेः पत्न्यश्विन्यश्विनोः पत्नी राड् राजते रोदसी रुद्रस्य पत्नी वरुणानी च वरुणस्य पत्नी व्यन्तु देव्यः कामयन्तां य ऋतुः कालो जायानाम्। (निरु०१२.४५-४६) देवानां विदुषां पालनयोग्याऽग्न्यादीनां स्थित्यर्थेयं पृथिवी वर्त्तते तस्माद् दैवपत्नीत्युच्यते यस्मिन् यस्मिन् द्रव्ये या याः शक्तयः सन्ति तास्तास्तेषां द्रव्याणां पत्न्य इवेत्युच्यन्ते (इह) अस्मिन् शिल्पयज्ञे (आ) समन्तात् (वह) वहति प्रापयति। अत्र व्यत्ययो लडथै लोट् च। (देवानाम्) पृथिव्यादीनामेकत्रिंशतः (उशती:) स्वस्वाधारगुणप्रकाशयन्तीः (उप) सामीप्ये (त्वष्टारम्) छेदन कर्तारं सूर्य शिल्पिनं वा (सोमपीतये) सोमानां पदार्थानां पीतिर्ग्रहणं यस्मिन् व्यवहारे तस्मै।।९।।

अन्वयः-योऽयमग्निः सोमपीतये देवानामुशती: पत्नीस्त्वष्टारं चोपावह समीपे प्रापयति तस्य प्रयोगो यथावत्कर्त्तव्यः॥९॥

भावार्थः-विद्वद्भिर्योऽग्नि तिको विद्युत्पृथिवीस्थसूर्य्यरूपेण त्रिधा वर्तमान: शिल्पविद्यासिद्धये पृथिव्यादीनां सामर्थ्यप्रकाशको मुख्यहेतुरस्ति स स्वीकार्यःअत्र शिल्पविद्यायज्ञे पृथिव्यादीनां संयोजनार्थत्वात् तत्तत्सामर्थ्यस्य पत्नीति संज्ञा विहिता॥९॥

पदार्थः (अग्ने) जो यह भौतिक अग्नि (सोमपीतये) जिस व्यवहार में सोम आदि पदार्थों का ग्रहण होता है उसके लिये (देवानाम्) इकत्तीस जो कि पृथिवी आदि लोक हैं उनकी (उशती:) अपनेअपने आधार के गुणों का प्रकाश करने वाला (पत्नीः) स्त्रीवत् वर्तमान अदिति आदि पत्नी और(त्वष्टारम्) छेदन करनेवाले सूर्य्य वा कारीगर को (उपावह) अपने सामने प्राप्त करता है, उसका प्रयोग ठीक-ठीक करें।९॥

भावार्थः-विद्वानों को उचित है कि जो बिजुली प्रसिद्ध और सूर्य्यरूप से तीन प्रकार का भौतिक अग्नि शिल्पविद्या की सिद्धि के लिये पृथिवी आदि पदार्थों के सामर्थ्य प्रकाश करने में मुख्य हेतु है, उसी का स्वीकार करें और यह इस शिल्पविद्यारूपी यज्ञ में पृथिवी आदि पदार्थों के सामर्थ्य का पत्नी नाम विधान किया है, उसको जानें।।९।

का का सा देवपत्नीत्युपदिश्यते

वे कौन-कौन देवपत्नी हैं, इस विषय का उपदेश अगले मन्त्र में किया ह