ऋग्वेद 1.17.3

 अनुकामं तर्पयेथामिन्द्रावरुण राय आ।

ता वां नेदिष्ठमीमहे॥३॥

अनुऽकामम्। तर्पयेथाम्। इन्द्रावरुणारायः। आ। ता। वाम्। नेदिष्ठम्। ईमहे॥३॥

पदार्थः-(अनुकामम्) कामं काममनु (तर्पयेथाम्) तर्पयेते। अत्र व्यत्ययो लडर्थे लोट् च। (इन्द्रावरुणा) अग्निजले। अत्र सुपां सुलुग्० इत्याकारादेशो वर्णव्यत्ययेन ह्रस्वत्वं च। (रायः) धनानिअनुकामं तर्पयेथामिन्द्रावरुण राय आ।

ता वां नेदिष्ठमीमहे॥३॥

अनुऽकामम्। तर्पयेथाम्। इन्द्रावरुणारायः। आ। ता। वाम्। नेदिष्ठम्। ईमहे॥३॥

पदार्थः-(अनुकामम्) कामं काममनु (तर्पयेथाम्) तर्पयेते। अत्र व्यत्ययो लडर्थे लोट् च। (इन्द्रावरुणा) अग्निजले। अत्र सुपां सुलुग्० इत्याकारादेशो वर्णव्यत्ययेन ह्रस्वत्वं च। (रायः) धनानि (आ) समन्तात् (ता) तौ। अत्रापि सुपां सुलुग्० इत्याकारादेशः। (वाम्) द्वावेतौ। अत्र व्यत्ययः। (नेदिष्ठम्) अतिशयेनान्तिकं समीपस्थम्। अत्र अन्तिकबाढयोर्नेदसाधौ। (अष्टा०५.३.६३) अनेनान्तिकशब्दस्य नेदादेशः। (ईमहे) जानीमः प्राप्नुमः। ईङ् गतौ इत्यस्माद् बहुलं छन्दसि इति शपो लुकि श्यनभावः।।३॥

अन्वयः-याविमाविन्द्रावरुणावनुकामं रायो धनानि तर्पयेथां तर्पयेते ता तो वां द्वावेतौ वयं नेदिष्ठमीमहे॥३॥

भावार्थ:-मनुष्येरेवं यो मित्रावरुणयोर्गुणान् विदित्वा क्रियायां संयोजितौ बहूनि सुखानि प्रापयतस्तो युक्त्या कार्येषु सम्प्रयोजनीया इति।।३।।

पदार्थ:-जो (इन्द्रावरुण) अग्नि और जल (अनुकामम्) हर एक कार्य में (रायः) धनों को देकर (तर्पयेथाम्) तृप्ति करते हैं, (ता) उन (वाम्) दोनों को हम लोग (नेदिष्ठम्) अच्छी प्रकार अपने निकट जैसे हो, वैसे (ईमहे) प्राप्त करते हैं।॥३॥

भावार्थ:-मनुष्यों को योग्य है कि जिस प्रकार अग्नि और जल के गुणों को जानकर क्रियाकुशलता में संयुक्त किये हुए ये दोनों बहुत उत्तम-उत्तम सुखों को प्राप्त करें, उस युक्ति के साथ कार्यों में अच्छी प्रकार इनका प्रयोग करना चाहिये।।३॥

तदेतत्करणेन किं भवतीत्युपदिश्यते

उक्त कार्य के करने से क्या होता है, इस विषय का उपदेश अगले मन्त्र में किया है