ऋग्वेद 1.17.4

 युवाकु हि शचीनां युवाकु सुमतीनाम्।

भूयाम वाजदानाम्॥४॥

युवाकु। हि। शचीनाम्। युवाओ। सुऽमतीनाम्। भूयाम। वाजऽदानाम्।। ४॥

पदार्थ:-(युवाकु) मिश्रीभावम्। अत्र बाहुलकादौणादिकः काकुः प्रत्ययः। (हि) यतः (शचीनाम्) वाणीनां सत्कर्मणां वाशचीति वाड्नामसु पठितम्। निघं० १.११) कर्मनामसु च। (निघ०२.१) (युवाकु) पृथग्भावम्। अत्रोभयत्र सुपां सुलुग्० इति विभक्तेलुक। (सुमतीनाम्) शोभना मतिर्येषां तेषां विदुषाम्। (भूयाम) समर्था भवेम। शकि लिङ् च। (अष्टा०३.३.१७२) इति लिङ्, बहुलं छन्दसि इति शपो लुक् च। (वाजदानाम्) वाजस्य विज्ञानस्यान्नस्य दातृणामुपदेशकानां वा॥४॥ ___

अन्वयः-वयं हि शचीनां युवाकु वाजदानां सुमतीनां युवाकु भूयाम् समर्था भवेमात एतौ साधयेम॥४॥

भावार्थ:-मनुष्यैः सदाऽऽलस्यं त्यक्त्वा सत्कर्माणि सेवित्वा विद्वत्समागमो नित्यं कर्त्तव्यः । यतोऽविद्यादारिद्रये मूलतो नष्टे भवेताम्॥४॥

पदार्थ:-हम लोग (हि) जिस कारण (शचीनाम्) उत्तम वाणी वा श्रेष्ठ कर्मों के (युवाकु) मेल तथा (वाजदानाम) विद्या वा अन्न के उपदेश करने वा देने और (सुमतीनाम्) श्रेष्ठ बुद्धिवाले विद्वानों के (युवाकु) पृथग्भाव करने को (भूयाम) समर्थ होवें, इस कारण से इनको साधे।।४॥

भावार्थ:-मनुष्यों को सदा आलस्य छोड़कर अच्छे कामों का सेवन तथा विद्वानों का समागम नित्य करना चाहिये, जिससे अविद्या और दरिद्रपन जड़-मूल से नष्ट हों।।४॥ ___

पुनः कथंभूताविन्द्रावरुणावित्युपदिश्यते।

फिर इन्द्र और वरुण किस प्रकार के हैं, इस विषय का उपदेश अगले मन्त्र में किया है