ऋग्वेद 1.4.9

 अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः।

प्रावो वाजेषु वाजिनम्॥८॥

अस्य। पीत्वा। शतक्रतो इति शतक्रतो। घनः। वृत्राणाम्। अभवः। प्रा आवः। वाजेषु। वाजिनम्॥८॥

पदार्थ:-(अस्य) समक्षासमक्षस्य सर्वस्य जगतो जलरसस्य वा (पीत्वा) पानं कृत्वा (शतक्रतो) शतान्यसंख्याताः क्रतवः कर्माणि यस्य शूरवीरस्य सूर्यलोकस्य वा सः। शतमिति बहुनामसु पठितम्। (निघं०३.१) क्रतुरिति कर्मनामसु पठितम्। (निघं० २.१) (घनः) दृढः काठिन्येन मूर्ति प्रापितो वा। मूर्ती घनः। (अष्टा०३.३.७७) अनेनायं निपातितः। (वृत्राणाम्) वृत्रवत्सुखावरकाणां शत्रूणां मेघानां वा। वृत्र इति मेघनामसु पठितम्। (निघं० १.१०) (अभवः) भूयाः भवति वा। अत्र पक्षे व्यत्ययः। लिङ्लटोरर्थे लङ् च। (प्रावः) रक्ष रक्षति वा। अत्रापि पूर्ववत्। (वाजेषु) युद्धेषु। वाज इति संग्रामनामसु पठितम्।

(निघ०२.१७) (वाजिनम्) धार्मिकं शूरवीरं मनुष्यं प्राप्तिनिमित्तं सूर्य्यलोकं वा। वाजिन इति पदनामसु पठितम्। (निघं०५.६) अनेन युद्धेषु प्राप्तवेगहर्षाः शूराः सूर्यलोका वा गृह्यन्ते।।८॥

अन्वयः-हे शतक्रतो पुरुषव्याघ्र! यथा घनो मूर्तिमानयं सूर्य्यलोकोऽस्य जलस्य रसं पीत्वा वृत्राणां मेघावयवानां हननं कृत्वा सर्वानोषध्यादीन् पदार्थान् प्रावो रक्षति, यथा च स्वप्रकाशेन सर्वान्प्रकाशते, तथैव त्वमपि सर्वेषां रोगाणां दुष्टानां शत्रूणां च निवारको भूत्वाऽस्य रक्षकोऽभवो भूयाःएवं वाजेषु दुष्टैः सह युद्धेषु प्रवर्त्तमानं धार्मिकं वाजिनं शूरं प्रावः प्रकृष्टतया सदैव रक्षको भव॥८॥

भावार्थ:-अत्र लुप्तोमालङ्कारः। यथा यो मनुष्यो दुष्टैः सह धर्मेण युध्यति तस्यैव विजयो भवति नेतरस्य, तथा परमेश्वरोऽपि धार्मिकाणां युद्धकर्तृणां मनुष्याणामेव सहायकारी भवति नेतरेषाम्॥८॥ ___

पदार्थ:-हे पुरुषोत्तम! जैसे यह (घन:) मूर्त्तिमान् होके सूर्य्यलोक (अस्य) जलरस को (पीत्वा) पीकर (वृत्राणाम्) मेघ के अङ्गरूप जलबिन्दुओं को वर्षाके सब ओषधी आदि पदार्थों को पुष्ट करके सब की रक्षा करता है, वैसे ही हे (शतक्रतो) असंख्यात कर्मों के करनेवाले शूरवीरो! तुम लोग भी सब रोग और धर्म के विरोधी दुष्ट शत्रुओं के नाश करनेहारे होकर (अस्य) इस जगत् के रक्षा करनेवाले (अभवः) हूजिये। इसी प्रकार जो (वाजेषु) दुष्टो के साथ युद्ध में प्रवर्त्तमान धार्मिक और (वाजिनम्) शूरवीर पुरुष है, उसकी (प्राव:) अच्छी प्रकार रक्षा सदा करते रहिये।८॥ ___

भावार्थ:-इस मन्त्र में लुप्तोपमालङ्कार है। जैसे जो मनुष्य दुष्टों के साथ धर्मपूर्वक युद्ध करता है, उसी का ही विजय होता है और का नहीं। तथा परमेश्वर भी धर्मपूर्वक युद्ध करनेवाले मनुष्यों का ही सहाय करनेवाला होता है, औरों का नहीं॥८॥

पुनरिन्द्रशब्देनेश्वर उपदिश्यते।

फिर इन्द्र शब्द से अगले मन्त्र में ईश्वर का प्रकाश किया है