ऋग्वेद 1.35.9

 हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववा यात्वर्वा।

अपसेधन् रक्षौ यातुधानानस्थाद् देवः प्रतिदोषं गृणानः॥१०॥

हिरण्यऽहस्तः। असुरः। सुनीथः। सुऽमृळीकः। स्वऽवान् यातु। अर्वाड अपऽसेधन्। रक्षसः। यातुऽधानान्। अस्थात्। दे॒वः। प्रति॒िऽदोषम्। गृणानः॥ १०॥

पदार्थ:-(हिरण्यहस्तः) हिरण्यानि सर्वतो गमनानि हस्ता इव यस्य सः। अत्र गत्यर्थाद्धर्य धातोरोणादिकः कन्यन् प्रत्ययः। (असुरः) असून् प्राणान् राति ददात्यविद्यमानरूपगुणो वा सोऽसुरो वायुःआतोऽनुपसर्गे कः। (अष्टा०३.२.३) इत्यसूपपदाद्राधातोः कः(सुनीथः) शोभनं नीथो नयनं प्रापणं यस्य सः(सुमृडीक:) यः शोभने मृडयति सुखयति सः। मृड: कीकच् कङ्कणौ। (उणा०४.२५) इति कीकच्। (स्ववान्) स्वे प्रशस्ताः स्पर्शादयो गुणा विद्यन्ते यस्मिन् सःअत्र प्रशंसाथै मतुप्(यातु) प्राप्नोति प्राप्नोतु वा (अर्वाङ्) अर्वतः स्वकीयानध ऊर्ध्वतिर्यग्गमनाख्यवेगानञ्चति प्राप्नोतीति। अत्र ऋत्विग्दधृक्० (अष्टा०३.२.५९) इति क्विन्। क्विन् प्रत्यस्य कुः (अष्टा०८.२.६२) इति कवर्गादेशः। (अपसेधन्) निवारयन् सन् (रक्षसः) चोरादीन् दुष्टकर्मकर्तृन्। रक्षो रक्षयितव्यमस्मात्। (निरु०४.१८) (यातुधानान्) यातवो यातनाः पीडा धीयन्ते येषु तान् दस्यून् (अस्थात्) स्थितवानस्ति (देवः) सर्वव्यवहारसाधकः (प्रतिदोषम्) रात्रिं रात्रिं प्रति। अत्र रात्ररुपलक्षणत्वाद् दिवसस्यापि ग्रहणमस्ति प्रतिसमयमित्यर्थः दोषेति रात्रिनामसु पठितम्। (निघं०१.७) (गृणान:) स्वगुणैः स्तोतुमर्हः ।।१०॥ ___

अन्वयः-हे सभेश! भवान् यथाऽयं हिरण्यहस्तोऽसुरः सुनीथः सुमृडीकः स्ववानर्वाङ् वायुर्याति सर्वतश्चलति। एवं प्रति दोषं गृणानो देवो वायु दुःखानि निवार्य सुखानि प्रापयित्वाऽस्थात् तथा यातुधानान् रक्षसोऽपसेधन् सर्वान् दुष्टान्निवारयन् श्रेष्ठान् यातु प्राप्नोतु॥१०॥

भावार्थ:-अत्र वाचकलुप्तोपमालङ्कारः। हे सभापते! यथायं वायुः स्वकीयाकर्षणबलादिगुणैः सर्वान् पदार्थान् व्यवस्थापयति यथा च दिवसे चौरा: प्रबला भवितुं नार्हन्ति, तथैव भवतापि भवितव्यम्। येन जगदीश्वरेण बहुगुणसुखप्रापका वायुवादयः पदार्था रचितास्तस्मै सर्वेर्धन्यवादा देयाः॥१०॥

पदार्थ:-हे सभापते! आप जैसे यह (हिरण्यहस्तः) जिसका चलना हाथ के समान है (असुरः) प्राणों की रक्षा करने वाला रूपगुणरहित (सुनीथः) सुन्दर रीति से सबको प्राप्त होने (सुमृडीक:) उत्तम व्यवहारों से सुखयुक्त करने और (स्ववान्) उत्तम-उत्तम स्पर्श आदि गुण वाला (अर्वाङ्) अपने नीचेऊपर टेढ़े जाने वाले वेगों को प्राप्त होता हुआ वायु चारों ओर से चलता है तथा (प्रतिदोषम्) रात्रि-रात्रि के प्रति (गृणान:) गुण कथन से स्तुति करने योग्य (देवः) सुखदायक वायु दुःखों को निवृत्त और सुखों को प्राप्त करके (अस्थात्) स्थित होता है, वैसे (रक्षसः) दुष्ट कर्म करने वाले (यातुधानान्) जिनसे पीड़ा आदि दुःख होते हैं, उन डाकुओं को (अपसेधन्) निवारण करते हुए श्रेष्ठों को प्राप्त हूजिये॥१०॥

भावार्थ:-इस मन्त्र में वाचकलुप्तोपमालङ्कार है। हे सभापति! जैसे यह वायु अपने आकर्षण और बल आदि गुणों से सब पदार्थों को व्यवस्था में रखता है और जैसे दिन में चोर प्रबल नहीं हो सकते हैं, वैसे आप भी हूजिये और तुमको जिस जगदीश्वर ने बहुत गुणयुक्त सुख प्राप्त करने वाले वायु आदि पदार्थ रचे हैं, उसी को सब धन्यवाद देने योग्य हैं।।१०॥

अथेन्द्रशब्दनेश्वर उपदिश्यते॥

अब अगले मन्त्र में इन्द्र शब्द से ईश्वर का उपदेश किया है।