ऋग्वेद 1.23.1

 अथास्य चतुर्विशत्यूचस्य त्रयोविंशस्य सूक्तस्य काण्वो मेधातिथिर्ऋषिः। १ वायुः; २,३

इन्द्रवायू; ४-६ मित्रावरुणौ, ७-९ इन्द्रोमरुत्वान्; १०-१२ विश्वेदेवाः, १३-१५ पूषा; १

२२ आपः; २३,२४ अग्निश्च देवताः। १-१८ गायत्री; १९ पुर उष्णिक्; २० अनुष्टप्; २१

प्रतिष्ठा; २२-२४ अनुष्टुप् च छन्दांसि। १-१८ षड्जः; १९ ऋषभः; २० गाधारः। २१

षड्जः; २२-२४ गान्धारश्च स्वरः॥

तत्रादिभेन वायुगुणा उपदिश्यन्ते।

अब तेईसवें सूक्त का आरम्भ है, इसके पहिले मन्त्र में वायु के गुण प्रकाशित किये हैं

तीव्राः सोमा॑स आ गाशीर्वन्तः सुता इमे

वायो तान् प्रस्थितान् पिब॥१॥

तीव्राःसोमा॑सः। आ। गहि। आशी:ऽव॑न्तः। सुताःइमे। वायो इति। तान्। प्रऽस्थितान्। पिब॥१॥

पदार्थ:-(तीव्राः) तीक्ष्णवेगाः (सोमासः) सूयन्त उत्पद्यन्ते ये ते पदार्थाः। अत्र अर्तिस्तुसुहसू० (उणा० १.१४०) अनेन षु धातोर्मन् प्रत्ययः। आज्जसरेसुग् इत्यसुक् च। (आ) सर्वतोऽर्थे (गहि) प्राप्नोति। अत्र व्यत्ययो लडर्थे लोट। बहुलं छन्दसि इति शपो लुक् च। (आशीर्वन्तः) आशिषः प्रशस्ताः कामना भवन्ति येषां ते। अत्र शासइत्वे आशास: क्वावुपसंख्यानम्। (अष्टा० वा०६.४.३४) अनेन वार्त्तिकेनाशीरिति सिद्धमततः प्रशंसाथै मतप। छन्दसीर इति वत्वञ्च। सायणाचार्येण 'श्रीज पाके' इत्यस्मादिदं पदं साधितं तदिदं भाष्यविरोधादशुद्धमस्तीति बोध्यम्। (सुताः) उत्पन्नाः (इमे) प्रत्यक्षा अप्रत्यक्षाः (वायो) पवनः (तान्) सर्वान् (प्रस्थितान्) इतस्ततश्चलितान् (पिब) पिबत्यन्त:करोति। अत्र व्यत्ययो लडर्थे लोट् च।।१॥

अन्वयः-य इमे तीव्रा आशीर्वन्तः सुता: सोमासः सन्ति तान् वायुरागहि समन्तात् प्राप्नोत्ययमेव तान् प्रस्थितान् पिबान्त:करोति॥१॥ तान् प्रस्थितान् पिबान्त:करोति॥१॥

भावार्थ:-प्राणिनो यान् प्राप्तुमिच्छन्ति यान् प्राप्ता सन्त आशीर्वन्तो भवन्ति, तान् सर्वान् वायुरेव प्रापप्य स्वस्थान् करोति, येषु पदार्थेषु तीक्ष्णाः कोमलाश्च गुणाः सन्ति, तान् यथावद्विज्ञाय मनुष्या उपयोगं गृह्णीयुरिति॥१॥

पदार्थ:-जो (इमे) (तीव्राः) तीक्ष्णवेगयुक्त (आशीर्वन्तः) जिनकी कामना प्रशंसनीय होती है (सुताः) उत्पन्न हो चुके वा (सोमास:) प्रत्यक्ष में होते हैं (तान्) उन सबों को (वायो) पवन (आगहि) सर्वथा प्राप्त होता है तथा यही उन (प्रस्थितान्) इधर-उधर अति सूक्ष्मरूप से चलायमानों को (पिब) अपने भीतर कर लेता है, जो इस मन्त्र में 'आशीर्वन्तः' इस पद को सायणाचार्य ने 'श्री पाके' इस धातु का सिद्ध किया है, सो भाष्यकार की व्याख्या से विरुद्ध होने से अशुद्ध ही है

भावार्थ:-प्राणी जिनको प्राप्त होने की इच्छा करते और जिनके मिलने में श्रद्धालु होते हैं, उन सबों को पवन ही प्राप्त करके यथावत् स्थिर करता है, इससे जिन पदार्थों के तीक्ष्ण वा कोमल गुण हैं, उन को यथावत् जानके मनुष्य लोग उन से उपकार लेवें।।१।।

अथ परस्परानुषङ्गिणावुपदिश्यते

अब अगले मन्त्र में परस्पर संयोग करने वाले पदार्थों का प्रकाश किया है