ऋग्वेद 1.11.5

 त्वं बलस्य॒ गोमतोऽपावरद्रिो बिलम्त्वां

देवा अबिभ्युषस्तुज्यमानास आविषुः॥५॥

त्वम्। बलस्य। गोऽमंतः। अप। अवः। अद्रिवः। बिलम्। त्वाम्। देवाःअबिभ्युषः। तुज्यमानासः। आविषुः॥५॥

पदार्थ:-(त्वम्) अयम् (बलस्य) मेघस्य। बल इति मेघनामसु पठितम्। (निघं०१.१०) (गोमतः) गावः संबद्धा रश्मयो विद्यन्ते यस्य तस्य। अत्र सम्बन्धे मतुप्। (अप) क्रियायोगे (अव:) दूरीकरोत्युद्धाटयतिअत्र पुरुषव्यत्ययः, लडथै लङ्। बहुलं छन्दसीत्याडभावश्च। (अद्रिवः) बहवोऽद्रयो मेघा विद्यन्ते यस्मिन्सः। अत्र भूम्न्यर्थे मतुप्। छन्दसीर इति मतुपो मकारस्य वत्त्वम्। मतुवसो रु सम्बुद्धौ छन्दसि। (अष्टा०८.३.१) इति नकारस्थाने रुरादेशश्च। अदिरिति मेघनामसु पठितम्। (निघं०१.१०) (बिलम्) जलसमूहम्। बिलं भरं भवति बिभर्तेः। (निरु०२.१७) (त्वाम्) तमिमम् (देवाः) दिव्यगुणाः पृथिव्यादयः (अबिभ्युषः) बिभेति यस्मात् स बिभीवान्न बिभीवानबिभीवान् तस्य (तुज्यमानासः) कम्पमानाः स्वां स्वां वसतिमाददानाः (आविषुः) अभितः स्वस्वकक्षां व्याप्नुवन्ति। अत्र लडथै लुङ्। अयं व्याप्त्यर्थस्याऽवधातोः प्रयोगः।।५॥

अन्वयः-योऽद्रिवो मेघवानिन्द्रः सूर्य्यलोको गोमतोऽबिभ्युषो बलस्य मेघस्य बिलमपावोऽपवृणोति त्वा तमिमं तुज्यमानासो देवा दिव्यगुणा भ्रमन्तः पृथिव्यादयो लोका आविषुर्व्याप्नुवन्ति॥५॥

भावार्थ:-यथा सूर्य्य: स्वकिरणैर्घनाकारं मेघं छित्वा भूमौ निपातयति, यस्य किरणेषु मेघस्तिष्ठति, यस्याभित आकर्षणेन पृथिव्यादयो लोकाः स्वस्वकक्षायां सुनियमेन भ्रमन्ति, ततोऽयनवहोरात्रादयो जायन्ते, तथैव सेनापतिना भवितव्यमिति॥५॥

पदार्थ:-(अद्रिवः) जिसमें मेघ विद्यमान है ऐसा जो सूर्य्यलोक है, वह (गोमतः) जिसमें अपने किरण विद्यमान हैं उस (अबिभ्युषः) भयरहित (बलस्य) मेघ के (बिलम्) जलसमूह को (अपावः) अलग-अलग कर देता है, (त्वाम्) इस सूर्य को (तुज्यमानासः) अपनी-अपनी कक्षाओ में भ्रमण करते हुए (देवाः) पृथिवी आदिलोक (आविषुः) विशेष करके प्राप्त होते हैं॥५॥

भावार्थ:-जैसे सूर्य्यलोक अपनी किरणों से मेघ के कठिन-कठिन बद्दलों को छिन्न-भिन्न करके भूमि पर गिराता हुआ जल की वर्षा करता है, क्योंकि यह मेघ उसकी किरणों में ही स्थित रहता, तथा इसके चारों ओर आकर्षण अर्थात् खींचने के गुणों से पृथिवी आदि लोक अपनी-अपनी कक्षा में उत्तमउत्तम नियम से घूमते हैं, इसी से समय के विभाग जो उत्तरायण, दक्षिणायन तथा ऋतु, मास, पक्ष, दिन, घड़ी, पल आदि हो जाते हैं, वैसे ही गुणवाला सेनापति होना उचित है॥५॥

अथेन्द्रशब्देन शूरवीरगुणा उपदिश्यन्ते

अब अगले मन्त्र में इन्द्र शब्द से शूरवीर के गुणों का उपदेश किया है