ऋग्वेद 1.16.8

 विश्वमित् सर्वनं सुतमिन्द्रो माय गच्छति।

वृत्रहा सोमपीतये॥८॥

विश्वम्। इत्। सर्वनम्। सुतम्। इन्द्रः। माया गच्छति। वृत्रहा। सोमऽपीतये॥ ८॥

पदार्थ:-(विश्वम्) जगत् (इत्) एव (सवनम्) सर्वसुखसाधनम् (सुतम्) उत्पन्नम् (इन्द्रः) वायुः (मदाय) आनन्दाय (गच्छति) प्राप्नोति (वृत्रहा) यो वृत्रं मेघं हन्ति सः। ब्रह्मभ्रूणवृत्रेषु क्विप्। (अष्टा०३.२.८७) अनेन ‘हन'धातो: क्विम्। (सोमपीतये) सोमानां पीति: पानं यस्मिन्नानन्दे तस्मै। अत्र सह सुपा इति समासः॥८॥ अन्वयः-अयं वृत्रहेन्द्रः सोमपीतये मदायेदेव सवनं सुतं विश्वं गच्छति प्राप्नोति।।८॥ भावार्थ:-वायुः स्वर्गमनागमनैः सकलं जगत्प्राप्य वेगवान् मेघहन्ता सन् सर्वान् प्राणिनः सुखयति, नैवैतेन विना कश्चित्कंचिदपि व्यवहारं साधितुमलं भवतीति।।८॥ 

पदार्थ:-यह (वृत्रहा) मेघ को हनन करनेवाला (इन्द्रः) वायु (सोमपीतये) उत्तम-उत्तम पदार्थों का पिलानेवाला तथा (मदाय) आनन्द के लिये (इत्) निश्चय करके (सवनम्) जिससे सब सुखों को सिद्ध करते हैं, जिससे (सुतम्) उत्पन्न हुए (विश्वम्) जगत् को (गच्छति) प्राप्त होते हैं।॥८॥

भावार्थ:-वायु आकाश में अपने गमनागमन से सब संसार को प्राप्त होकर मेघ की वृष्टि करने वा सब से वेगवाला होकर सब प्राणियों को सुख युक्त करता है। इसके विना कोई प्राणी किसी व्यवहार को सिद्धि करने को समर्थ नहीं हो सकता।।८॥

अथेन्द्रशब्देनेश्वरगुणा उपदिश्यन्ते।

अब अगले मन्त्र में इन्द्र शब्द से ईश्वर के गुणों का उपदेश किया है

सेमं नः काममा घृण गोभिरश्वैः शतक्रतो।

स्तमि त्वा स्वा॒यः॥९॥३१॥

सः। डुमम्नः। कामम्। आपृणगोभिःअश्वैः। शतक्रतो इति शतक्रतोस्तामा त्वासुऽआध्यः॥९॥ ___

पदार्थ:-(सः) जगदीश्वरः (इमम्) वेदमन्त्रैः प्रेम्णा सत्यभावेनानुष्ठीयमानम् (न:) अस्माकम् (कामम्) काम्यत इष्यते सर्वैर्जनस्तम् (आ) अभितः (पृण) पूरय (गोभिः) इन्द्रियपृथिवीविद्याप्रकाशपशुभिः (अश्वैः) आशुगमनहेतुभिरग्न्यादिभिस्तुरङ्गहस्त्यादिभिर्वा (शतक्रतो) शतमसंख्यातानि क्रतवः कर्माण्यनन्ता प्रज्ञा वा यस्य तत्सम्बुद्धौ सर्वकामप्रदेश्वर (स्तवाम) नित्यं स्तुवेम (त्वा) त्वाम् (स्वाध्यः) ये स्वाध्यायन्ति ते। अत्र स्वाङ् पूर्वाद् ध्यै चिन्तायाम् इत्यस्मात् ध्यायतेः सम्प्रसारणं च। (अष्टा०३.२.१७८) अनेन क्विप् सम्प्रसारणं च॥९॥

अन्वयः-हे शतक्रतो जगदीश्वर! यं त्वा स्वाध्यो वयं त्वां स्तवामः स्तुवेम स त्वं गोभिर श्वै!ऽस्माकं काममापृण समन्तात्प्रपूरय।।९॥

भावार्थ:-ईश्वरस्यैतत्सामर्थ्य वर्त्तते यत् पुरुषार्थिनो धार्मिकाणां मनुष्याणां स्वस्वकर्मानुसारेण सर्वेषां कामानां पूर्ति करोति। यः सृष्टौ परमोत्तमपदार्थोत्पादनधारणाभ्यां सर्वान् प्राणिनः सुखयति तस्मात्स एव सर्वेनित्यमुपासनीयो नेतरः॥९॥ __

अस्य षोडशसूक्तार्थस्यर्तुसम्पादकानां सूर्य्यवाय्वादीनां यथायोग्यं प्रतिपादनात् पञ्चदशसूक्तार्थेन सह सङ्गतिरस्तीति बोध्यम्। इदमपि सूक्तं सायणाचार्यादिभियूरोपदेशवासिभिरध्यापकविलसनादिभिश्च विपरीतार्थे व्याख्यातमिति॥९॥

इति षोडशं सूक्तमेकत्रिंशो वर्गश्च समाप्तः॥