ऋग्वेद 1.11.1

 अथास्याष्टर्चस्यैकादश सूक्तस्य जेता माधुच्छन्दस ऋषिः। इन्द्रो देवता। अनुष्टुप् छन्दः गाधारः

स्वरः॥

अथेन्द्रशब्देनेश्वरविजेतारावुपदिश्यते।

अब ग्यारहवें सूक्त का आरम्भ किया जाता है। तथा पहले मन्त्र में इन्द्र शब्द से ईश्वर वा विजय करनेवाले पुरुष का उपदेश किया है

इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यंचसं गिरः। रीतमं रथीनां वाजानां सत्प॑ति॒म्पतिम्॥१॥ इन्द्रम्। विश्वाः। अवीवृधन्। समुद्रऽव्यचसम्। गिरः। रथिऽतमम्। रथीनाम्। वाजानाम्। सत्प॑तिम्। पतिम्॥ १॥

पदार्थः-(इन्द्रम्) विजयप्रदमीश्वरम, शत्रूणां विजेतारं शूरं वा (विश्वाः) सर्वाः (अवीवृधन्) अत्यन्तं वर्धयन्तु। अत्र लोडर्थे लुङ्। (समुद्रव्यचसम्) समुद्रेऽन्तरिक्षे व्यचा व्याप्तिर्यस्य तं सर्वव्यापिनमीश्वरम्। समुद्रे नौकादिविजयगुणसाधनव्यापिनं शूरवीरं वा (गिरः) स्तुतयः (रथीतमम्) बहवो रथा रमणाधिकरणः पृथिवीसूर्यादयो लोका विद्यन्ते यस्मिन्स रथीश्वरः सोऽतिशयितस्तम्। रथाः प्रशस्ता रणविजयहेतवो विमानादयो विद्यन्ते यस्य सोऽतिशयितः शूरस्तम्। रथिन ईद्वक्तव्यः। (अष्टा०८.२.१७) इति वार्त्तिकेनेकारादेशः। (रथीनाम्) नित्ययुक्ता रथा विद्यन्ते येषां योद्धृणां तेषाम्। अन्येषामपि दृश्यते। (अष्टा०६.३.१३७) अनेन दीर्घः। (वाजानाम्) वजन्ति प्राप्नुवन्ति जयपराजयो येषु युद्धेषु तेषाम् (सत्पतिम्) यः सतां नाशरहितानां प्रकृत्यादिकारणद्रव्याणां पतिः स्वामी तमीश्वरम्। यः सतां सद्व्यवहाराणां सत्पुरुषाणां वा पति: पालकस्तं न्यायाधीशं राजानम् (पतिम्) यः पाति रक्षति चराचरं जगत्तमीश्वरम्, य: पाति रक्षति सज्जनाँस्तम्॥१॥

अन्वयः-अस्माकमिमा विश्वा गिरो यं समुद्रव्यचसं रथीनां रथीतमं वाजनां सत्पतिं पतिमिन्द्रं परमात्मानं वीरपुरुषं वाऽवीवृधन् नित्यं वर्द्धयन्ति तं सर्वे मनुष्या वर्द्धयन्तु॥१॥

भावार्थ:-अत्र श्लेषालङ्कारः। सर्वा वेदवाण्यः परमैश्वर्य्यवन्तं सर्वगतं सर्वत्र रममाणं सत्यस्वभावं धार्मिकाणां विजयप्रदं परमेश्वरं प्रकाशयन्ति। धर्मेण बलेन दुष्टमनुष्याणां विजेतारं धार्मिकाणां पालकं वेतीश्वरो वेदवचसा सर्वान् विज्ञापयति॥१॥

पदार्थ:-हमारी ये (विश्वाः) सब (गिरः) स्तुतियां (समुद्रव्यचसम्) जो आकाश में अपनी व्यापकता से परिपूर्ण ईश्वर, वा जो नौका आदि पूरण सामग्री से शत्रुओं को जीतनेवाले मनुष्य (रथीनाम्) जो बड़े-बड़े युद्धों में विजय कराने वा करनेवाले (रथीतमम्) जिसमें पृथिवी आदि रथ अर्थात् सब क्रीड़ाओं के साधन, तथा जिसके युद्ध के साधन बड़े-बड़े रथ हैं, (वाजानाम्) अच्छी प्रकार जिनमें जय और पराजय प्राप्त होते हैं, उनके बीच (सत्पतिम्) जो विनाशरहित प्रकृति आदि द्रव्यों का पालनकरनेवाला ईश्वर, वा सत्पुरुषों की रक्षा करनेहारा मनुष्य (पतिम्) जो चराचर जगत् और प्रजा के स्वामी, वा सज्जनों की रक्षा करनेवाले और (इन्द्रम्) विजय के देनेवाले परमेश्वर के, वा शत्रुओं को जीतनेवाले धर्मात्मा मनुष्य के (अवीवृधन) गुणानुवादों को नित्य बढ़ाती रहें।।१॥

भावार्थ:-इस मन्त्र में श्लेषालङ्कार है। सब वेदवाणी परमैश्वर्युक्त सब में रहने सब जगह रमण करने सत्य स्वभाव तथा धर्मात्मा सज्जनों को विजय देनेवाले परमेश्वर और धर्म वा बल से दुष्ट मनुष्यों को जीतने तथा धर्मात्मा वा सज्जन पुरुषों की रक्षा करनेवाले मनुष्य का प्रकाश करती हैं। इस प्रकार परमेश्वर वेदवाणी से सब मनुष्यों को आज्ञा देता है।।१।।

पुनस्तावेवोपदिश्यते।

फिर भी अगले मन्त्र में इन्हीं दोनों का प्रकाश किया है